SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ iz आश्रवतत्वे क्रियाः॥ श्रीनवतत्त्वसुमङ्गलाटीकायां॥७३॥ > नक्रिया अविरतिजन्यत्त्वाच्चतुर्थगुणपर्यन्तवर्तिनी ॥१०॥ दृष्टिजा द्विविधा, जीवदृष्टिजा अजीवदृष्टिजा च, जीवदृष्टिजा तुरङ्गस्यन्दनप्रभृतीनां चक्षुर्दर्शनप्रत्ययाय गच्छति, अजीवदृष्टिजा चित्रकादीनाम् , एषा सकषायचक्षुरिन्द्रियवां विद्यते दशमगुणस्थानं यावत् ॥११॥ स्पर्शनाऽत्मिका स्पृष्टिजा-सा च द्विविधा जीवस्पृष्टिजा अजीवस्पृष्टिजा च, तत्र जीवस्पृष्टिजा स्त्रियं पुरुष नपुंसक वा रागात्संघट्टयतीति, अजीवस्पृष्टिजा मृगलोमादिवस्त्रजातं मौक्तिकादिरत्नजातं रागादिकारणात्संघट्टयतीति, सरागजन्यवादेषा सूक्ष्मसम्पराय यावत् ॥१२॥ कश्चिदन्यं प्रतीत्य कर्मबन्धो जायते यया सा प्रातीत्यकी द्विधा-जीवप्रातीत्यकी अजीवप्रातीत्यकी च, तत्र जीवं प्रतीत्य यो बन्धः सा जीवप्रातीत्यकी, अजीवं प्रतीत्य यो बन्धः साजीवप्रातीत्यकी, एपा दशमं गुणस्थानं यावत् ॥ १३ ॥ सामन्तोपनिपातिकी च द्विविधा, जीवसामन्तोपनिपातिकी अजीवसामन्तोपनिपातिकी च, तत्राऽऽद्या यथा एकश्च षण्डस्तं जनो यथा यथा प्रलोकते प्रशंसति च तथा तथा स हर्ष गच्छति, अजीवानपि रथकादीन, अथवा सामन्तोपनिपातिकी द्विधा-देशसामन्तोपनिपातिकी सर्वसामन्तोपनिपातिकी च, अथवा प्रमत्तसंयतानामनपानं अनाच्छादितं सत्संपातिमाः सत्त्वा आसमन्ताद् विनश्यति । एषा आरम्भजन्यचात्पश्चमगुणस्थानं यावत् ॥१४॥ नैःशस्त्रिकी क्रिया द्विविधा जीवन शत्रिकी अजीवनैःशस्त्रिकी च, जीवनैःशस्त्रिकी यथा राजादिसंदेशाद्यत्रादिभिरुदकस्य कूपाद्वहिनिसर्जनम् , १ अथवा पृष्टिजा सा द्विविधा-जीवप्राभिकी अजीवप्राभिकीच, जीवप्राभिकी या जीवाधिकारं पृच्छति रागेण वा द्वेषण वा, अजीवाधिकारं वा पृच्छत्यनीवप्राश्रिकी ॥ ____ २ नानाविधनाट्या(सीनेमा)ख्यप्रयोगेषु एषा सामन्तोपनिपातिकी क्रिया प्रेक्षकाणां नाट्यादिकौतुककर्तृणां च जायते ॥ 055552yzs059- 5 -5>y ॥७३॥ !
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy