________________
卐zyyyyyyyy
सा विविधा, क्रोध निश्रिता माननिश्रिता च, क्रोधनिश्रिता आत्मना कुष्यति परस्य क्रोधं वोत्पादयति, माननिश्रिता स्वयं माद्यति, परस्य वा मानमुत्पादयतीति, एषा नवमगुणस्थानकं यावद्वर्त्तते ॥ २४ ॥ ईर्यापथिकी क्रिया द्विविधा-क्रियमाणा वेद्यमाना च, तत्राप्रमत्तसंयतस्य वीतरागच्छद्मस्थस्य केवलिनो वाऽऽयुक्तं गच्छत आयुक्तं तिष्ठत आयुक्तं निषीदत आयुक्तं त्वग्वर्त्तयत आयुक्तं भुञानस्याऽऽयुक्तं भाषमाणस्याऽऽयुक्तं वस्त्रं पात्रं कम्बलं पादपोञ्छनंच गृह्नतो निक्षिपतो वा यावच्चक्षुःपक्ष्मनिपातमपि कुवतो या सूक्ष्मा क्रिया सा क्रियमाणा ईर्यापथिकी, या च प्रथमे समये बद्धा सती द्वितीयसमये वेद्यमाना सा द्वितीया, योगप्रत्ययत्वादेषा सयोगिगुणस्थानं यावद् ॥ २५ ॥ एताः पञ्चविंशतिक्रियाः। नन्वाश्रवाणां द्विचत्वारिंशदात्मिका संख्या प्रोक्ता, सा कथं घटते ? यतः केपाश्चिवाराणां परस्परमनुप्रवेशः प्रत्यक्षमेव दृग्गोच्चरो भवति, यथेन्द्रियमध्ये चक्षुःस्पर्शनेन्द्रिये दृष्टिस्पृष्टिक्रिययोरन्तर्भवतः, तद्व्यतिरेकेण चक्षुःस्पर्शनयोर्विद्यमानयोरपि आश्रवत्त्वाऽयोगात् । कषायचतुष्टयं तु प्रेमप्रत्ययद्वेषप्रत्ययक्रिययोरन्तर्भवति, मायालोभकषायद्वयस्य प्रेमत्त्वात् , क्रोधमानयोश्च द्वेषत्त्वादिति, तथाऽव्रतपश्चकस्यापि सामान्यरूपतयाऽप्रत्याख्यानक्रियायामन्तर्भावः, विशेषरूपतया वाद्याऽव्रतस्य प्राणातिपातक्रियायाम, पश्चमस्य च परिग्रहक्रियायामनुप्रवेशः, क्रियाणां चैतासां यथोक्तपदेष्वनुप्रवेशः। एवं क्रियाणामपि परस्परानुप्रवेशो वक्तव्यः । तथा योगत्रयस्यापि मध्ये कायिकी क्रियायां काययोगस्य, प्रयोगक्रियायाश्च शेषद्वयस्येति, एवञ्च द्विचत्वारिंशत्संख्या विघटते, किमत्रप्रतिविधानं ? उच्यते, एवं परस्परान्तर्भावसम्भवेऽपि विशेषणीयार्थभेदनानात्वाऽपेक्षया शिष्यबुद्धिवैशद्यार्थमाश्रवभेदानां परस्पराऽसंकीर्णचं परिभावनीयं, तथाहि-यदुक्तं चक्षुःस्पर्शनेन्द्रिययोईष्टिस्पृष्टिक्रियाऽन्तर्भावः, तत्र चक्षुःस्पर्शनयोरिन्द्रियत्त्वकृतो यो
505532z50995