SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आश्रवत्वे क्रियाः॥ श्रीनवतत्त्वमुमालाटीकायां॥७२॥ 1293955-5 दिवियोगदुःखभारातिपीडितस्याऽऽत्मनस्ताडनशिरःस्फोटनादिना स्वपारितापनिकी, आह-एवं सति लोचाऽकरणतपोऽनुष्ठानाऽकरणप्रसङ्गः, यथायोग स्वपराऽसातवेदनाहेतुत्वात् , तदयुक्तं-विपाकहितत्त्वेन चिकित्साकरणवत्, लोचकरणादेरसातवेदनाहेतुत्वाऽयोगात्, अशक्यतपोनुष्ठानप्रतिषेधाच्च, उक्तच “सो हु तवो कायवो जेण मणो मङ्गलं न चिंतेइ । जेण न इंदियहाणी जेण य जोगा न हायंति" ॥१॥ तथा "कायो न केवलमयं परिपालनीयो-मृष्टै रसै बहुविधैर्न च लालनीयः। चित्तेन्द्रियाणि न चरन्ति यथोत्पथेषु वश्यानि येन च तथाऽऽचरितं जिनानाम्" ॥१॥ इति । पुत्रशिष्यादिताडनादिना तु परपारितापनिकी, एषा द्विविधाऽपि बादरकषायजन्यत्त्वादनिवृत्तिबादरगुणस्थानं यावद्विद्यते ॥ ५॥ प्राणानामतिपातः प्राणातिपातस्तेन निवृत्ता प्राणातिपातिकी, जीवितनाशिनीत्यर्थः, सा च द्विधा-स्वप्राणातिपातिकी, परप्राणातिपातिकी च, तत्राऽऽद्यागिरिशिखरप्रपातजलज्वलनप्रवेशशस्त्रपाटनप्रभृतेः स्वपरहस्ताभ्यामात्मविषयकरणकारणे, अत एव कारणाद्भगवद्भिरकालमरणं प्रतिषिद्धम् । द्वितीया तु मोहलोभक्रोधाविष्टैः परस्य स्वपरहस्तप्राणच्यावनमिति । एषाऽसंयतानामेव अतः पञ्चमगुणस्थानपर्यन्तभाविनी ॥ ५॥ आरम्भाजाता आरम्भिकी, सा च द्विविधा-तत्र चैतन्योपेतजीवघातात्मिका क्रिया सा जीवारम्भिकी, चित्रप्रभृतिषु निर्मितचैतन्यवियुक्तस्थापनाजीवघातात्मिका या क्रिया सा अजीवारम्भिकी, प्रमादजन्यत्त्वादेषा षष्ठगुणपर्यंतभाविनी ॥६॥धनधान्यसंग्रहलक्षणपरिग्रहादागता पारिग्राहिकी, सा च पूर्ववविधा-जीवपारिग्राहिकी अजीवपारिग्राहिकी च, तत्र प्रथमा धान्य-पशु-प्रेष्यप्रभृतिषु संग्रहस्वरूपा जीवपारिग्राहिकी, धनालंकारवासोगृहादिषु ममत्त्वलक्षणा अजीवपारिग्राहिकी, एषा परिग्रहप्रसक्तानां प्रजायते, अतो पञ्चमदेशविरतिगुणस्थानकपर्यन्तं वत्तते ।। ७ ।। मायाप्रत्ययिकी क्रिया >卐073C' ॥७२॥ >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy