________________
>卐<--ॐॐॐॐz
व्याख्या-करणं क्रिया, कर्मबन्धनिबन्धनचेष्टा इत्यर्थः, तासां च पञ्चविंशतिः 'काइय' इति, कायेन देहेन निवृत्ता कायिकी, तद्यथा-सा चासौ क्रिया कायिकी क्रिया. साच द्विप्रकारा, अनुपरतकायिकी अनुपयुक्तकायिकी च, तत्र अनुपरतकायिकी नाम या प्रदुष्टमिथ्यादृष्ट्यादेर्वाङ्मनोनिरपेक्षा पराभिभवाऽऽत्मककायोद्यमक्रिया, अस्याश्च स्वामी अविरतमिथ्यादृट्यादिः। अनुपयुक्तकायक्रिया तु प्रमत्तसंयतस्य सुबहुप्रकाराऽनेककर्त्तव्यतारूपा दुष्प्रयोगकायक्रिया, अस्याश्च स्वामी अनुपयुक्तसंयतः॥१॥अधिक्रियते नियुज्यते नरकादिषु प्राप्यतेऽनेनेत्यधिकरणं, परोपघातिकूटगलपाशादिद्रव्यजातम् , तेन निवृत्ताऽऽधिकरणिकी, सा च संयोजननिर्वर्तनभेदाभ्यां द्विधा, संयोजनाऽऽधिकरणिकी, निर्वर्तनाऽऽधिकरणिकी चेत्यर्थः, तत्र संयोजन विषगरहलकूटधनुर्यत्रासिमुष्ट्यादीनां सम्बन्धनम् , तद्विद्यते यस्यां क्रियायां सा संयोजनाऽऽधिकरणिकी । निर्वतनं तुमूलोत्तरगुणभेदाविधा, तत्र मूलगुणनिर्वर्त्तनं पञ्चानामौदारिकादिशरीराणां मूलतो निष्पादन, उत्तरगुणनिवर्त्तनं तु पाणिपादाद्यवयवकरणम्, अथवाऽसिशक्तितोमरादीनामादित एव करणं मूलगुणनिवर्त्तनं, तेषामेव पानोज्वलीकरणं परिवारादिसम्पादनमुत्तरगुणनिवेतनम् , तद्विद्यते यस्यां क्रियायां सा निर्वर्तनाधिकरणिकी। तेषु खङ्गादिषु मूलगुणोत्तरगुणनिवेत्तेनाभ्यां निष्पन्नेषु मुष्ट्यादीनां (त्सरुप्रभृतीनां) संयोजनं यस्यां क्रियायां विद्यते साऽपि संयोजनाऽधिकरणिकी एषा क्रिया नवमगुणस्थानकं यावद्विद्यते । ॥२॥ जीवेज्जीवे वा प्रदोषकरणं प्रादोषिकी, सा च जीवाजीवविषयत्त्वेन द्विविधा, तत्र पुत्रकलत्रादिस्वजनपरजनविषया जीवप्रादोषिकी, अजीवप्रादोषिकी तु क्रोधोत्पत्तिनिमित्तभृतस्थाणुकण्टकदृषच्छकलशर्करादिगोचरेति, एषाऽपि नवमगुणस्थानकं यावत् ॥३॥ परितापनिकी द्विधा, स्वपारितापनिकी परपारितापनिकी च, तत्र स्वहस्तेन परहस्तेन वा पुत्रकलत्रा
卐जEgyzs0g)-)