________________
N
>'
आश्रवतत्त्वे योगाः॥
श्रीनवतत्त्वमुमङ्गलाटीकायां॥७१॥
>
प्रदर्श्यते, तद्यथा-मनःपर्याप्तनामकर्मोदयेन काययोगद्वारा मनःप्रायोग्यपुद्गलद्रव्यानादाय मनस्त्वेन परिणमय्याऽवलम्ब्य च यद्विसर्जनं तदात्मको यो व्यापारः स मनोयोगः, अत्र मनोयोग्यद्रव्यग्रहणक्रियायां काययोगः, परिणमनाऽऽलम्बनयोर्मनोयोग इत्यवगन्तव्यम् । भाषापर्याप्तनामकर्मोदयेन काययोगद्वारा भाषा प्रायोग्यपुद्गलद्रव्यानादाय भाषाचवेन परिणमय्याऽवलम्ब्य च विसृजतीत्यात्मको व्यापारः स वचनयोगः, ॥ औदारिकादिशरीरैर्जीवानां गमनाऽऽगमनाद्यात्मको यो व्यापारः स काययोगः । इत्येवं पूर्वोक्तैर्मनोवाकायैर्विधीयमाना चिन्तनभाषणकरणात्मिका शुभाऽशुभा या क्रिया सा शुभाऽशुभसंज्ञयोराश्रवयोनिमित्ता । पूर्वोक्तेषु योगेषु कस्यापि योगस्य जघन्यतः समयप्रमाणा स्थितिस्ततो योगपरावृत्तिर्जायते, उत्कृष्टतस्तु अन्तर्मुहूर्त्तमात्रा स्थितिस्ततोऽवश्यमेव योगपरावर्त्तनं संजायते । योगानामाश्रवतत्त्वे नास्ति किश्चिद्धाधकं प्रमाणं, यावद्योगास्तावदवश्यं कर्मबन्धः, कषायसहचरितयोगाः साम्परायिकबन्धहेतवः, कषायरहितास्तु ईर्यापथिककर्मवन्धनिमित्ताः, यदाऽयोगित्त्वं तदा कर्मबन्धाऽभावः । इति योगस्वरूपम् तेषु व्याख्यातेषु 'इंदियकसाय' इति गाथापि व्याख्याता। केवलं | गाथायामुक्तं 'किरियाओ पणवीसं ' इत्यादिपदं निर्व्याख्यातं, तदग्रिमगाथाभिः क्रियाणां नामग्राहं व्याख्यायते
काइय अहिगरणिया, पाउसिया पारितावणी किरिया।पाणाइवायारंभिय, परिग्गहियामायवत्तिया।२२॥ मिच्छादसणवत्ती, अपच्चक्खाणी य दिट्रि पुट्रिय। पाइच्चिय सामंतो-वणीअ नेसत्त्यि साहत्थी।२३|| आणवणि विआरणिया,अणभोगा अणवकखपच्चइया।अन्नापओगसमुदा-ण पिज्ज दोसेरियावहिया ।२४||
>
-
<
॥७१ ॥
All