SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ! 卐 z <卐 -卐> पगच्छति तावत् यद्यप्याहारकेण मिश्रत्त्वमौदारिकस्योभयनिष्ठं तथाप्यौदारिकस्यारम्भकतया प्रधानमिति तेन व्यपदेशप्रवृत्तिरौदारिकमिश्रमिति, नत्वाहारकमिश्रचमिति, एवं पूर्वोक्तप्रकारत्रयेणाप्यौदारिकमिश्रकाययोगः ॥२॥ वैक्रियकाययोगो वैक्रियशरीरपर्याप्या पर्याप्तानां देवनारकाणां वैक्रियलब्धिमतां (वैक्रियरचनावस्थायां ) तिर्यङ्मनुजबादरवायुकायिकानाश्च ॥ ३ ॥ वैक्रियमिश्रकाययोगो देवनारकाणामपर्याप्ताऽवस्थायां, मिश्रता च तदानीं कार्मणेन सह वेदितव्या, तथा यदा मनुष्यस्तिर्यक्पञ्चेन्द्रियो बादरवायुकायिको वा वैक्रियशरीरीभूत्वा कृतकार्यो वैक्रिय परिजिहीर्घरौदारिके प्रवेष्टुं यतते तदा किल वैक्रियशरीरबलेनौदारिकोपादानाय प्रवर्तत इति वैक्रियस्य प्राधान्यात्तेन व्यपदेशो नौदारिकेणेति वैक्रियमिश्रमिति ॥ ४ ॥ तथाऽsहारककाययोग आहारकशरीरपर्याप्त्या पर्याप्तस्य ॥ ५॥ आहारकमिश्रकाययोग आहारकादौदारिकं प्रविशतः, अत्रैदम्पर्ययदा आहारकशरीरीभूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदा यद्यपि मिश्रत्त्वमुभयनिष्ठं तथाप्यौदारिके प्रवेश आहारकबलेनेत्याहारकस्य प्रधानत्वात्तेन व्यपदेशो नौदारिकेणाऽऽहारकमिश्रमिति ॥६॥ एतच्च सिद्धान्ताऽभिप्रायेणोक्तं, कार्मग्रन्थिकाः पुनक्रियस्य प्रारम्भकाले परित्यागकाले च वैक्रियमिश्रम् , आहारकशरीरस्य प्रारम्भकाले परित्यागकाले चाऽऽहारकमिश्र, नत्वेकस्यामप्यवस्थायामौदारिकमिश्रमिति प्रतिपन्नाः, (तैजस ) कार्मणकाययोगो विग्रहगतौ समुद्धाताऽवस्थायां वा सयोगिकेवलिनस्तृतीयचतुर्थपञ्चमसमयेषु, इह तैजसं कार्मणेन सहाऽव्यभिचारीति युगपत्तैजसकार्मणग्रहणम् ॥ ७॥ इत्येवं प्रसङ्गतः पञ्चदशभेदभिन्नो योगो लेशतः प्रदर्शितः, अस्मिन्नाश्रवतत्त्वप्रकरणे तु त्रिप्रकारको योगो व्यावर्णित:, यतो द्विचत्वारिंशद्भेदेषु योगस्य त्रयो भेदा एवान्तर्गणिता, पञ्चदशगणनायां तु संख्याव्यभिचारस्स्यात् , तद्योगत्रिकं नामतः <卐-卐> >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy