________________
iz
>
श्रीनवतत्त्वसुमङ्गलाटीकायां॥७०॥
आश्रवतत्त्वे पञ्चदशयोगाः॥
<
>卐
-
प्रतिसमयमुपचीयमानत्त्वाच्च काय औदारिकशरीरकायः, तस्य योगो व्यापारो धावनवल्गनाद्यात्मक औदारिकशरीरकाययोगः, अयञ्च तिरथो मनुष्यस्य च पर्याप्तस्य २ । औदारिकमिश्रकाययोगः:-औदारिकं च तन्मिश्रं चेति औदारिकमिश्र, केन सह मिश्रित मिति चेत् ? उच्यते, कार्मणेन, तथा चोक्तं नियुक्तिकारेण:-'जोएण कम्मएणं आहारेइ अणंतरंजावो । तेण परं मीसेणं जाव सरीरस्स निप्फत्ती॥१॥ ननु मिश्रत्त्वमुभयनिष्ठं, तथाहि-यथा औदारिकं कार्मणेन मिश्रं तथा कार्मणमपि औदारिकेण मिश्रं ततः कस्मादौदारिकमिश्रमेव तदुच्यते न कार्मणमिश्रमिति ? उच्यते-इह व्यपदेशः स प्रवर्तनीयो येन विवक्षितार्थप्रतिपत्तिनिष्प्रतिपक्षा श्रोतृणामुपजायते, अन्यथा संदेहाऽऽपत्तितो विवक्षितार्थाप्रतिपच्या न तेषामुपकारः कृतस्स्यादिति, कार्मणञ्च शरीरमासंसारमविच्छेदेनाऽवस्थितत्त्वात सकलेष्वपि शरीरेषु सम्भवति ततः कार्मणमिश्रमित्युक्ते न ज्ञायते किं तिर्यङ्मनुष्याणां अपर्याप्ताऽवस्थायां तद्विवक्षितमुत देवनारकाणामिति ? तत उत्पत्तिमाश्रित्यौदारिकस्य प्रधानत्वात् कादाचित्कत्वाच्च निष्प्रतिपक्षविवक्षिताऽर्थप्रतिपत्त्यर्थमौदारिकेण व्यपदिश्यते औदारिकमिश्रमिति । तथा यदौदारिकशरीरो वैक्रियलब्धिसम्पन्नो मनुष्यस्तिर्यकपञ्चेन्द्रियः पर्याप्तबादरवायुकायिको वा वैक्रियं करोति तदा किलौदारिकशरीरप्रयोगे एव वर्तमानःप्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान् पुद्गलानुपादाय वैक्रियशरीरपर्याप्त्या यावन्न समाप्तिमुपगच्छति तावत् यद्यपि वैक्रियेण मिश्रता औदारिकस्योभयनिष्ठा तथाप्यौदारिकस्य प्रारम्भकतया प्रधानत्वात्तेन व्यपदेश औदारिकमिश्रमिति, न वैक्रियेणेति । तथा यदा कश्चिदाहारकलब्धिमान् पूर्वधरः संशयविनिवृत्त्यर्थ त्रिभुवनभर्तुसमवसरणदर्शनार्थ वाऽऽहारकशरीरं करोति तदा औदारिकशरीरप्रयोग एव वर्तमानः प्रदेशान् विक्षिप्य आहारकशरीरयोग्यान् पुद्गलानुपादाय आहारकशरीरपर्याप्त्या यावन्न पर्याप्तिमु
3559zs09卐जर
-
॥७०॥
23