SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ AASIA T ( T5V5A तन्मनश्च सत्यमनः तस्य योगो व्यापारः सत्यमनोयोगः, अथवा सन्तो मुनयस्तेषु मुक्तिप्रापकत्त्वेन साधु इति सत्यमनोयोगः ॥ १ ॥ असत्यमनोयोगः — सत्यविपरीतमसत्यं, यथा नास्ति जीव एकान्तसद्रूपो वेत्यादिकुविकल्पनपरं, असत्यञ्च तन्मनश्च तस्य योगोऽसत्यमनोयोगः ॥ २ ॥ सत्यमृषामनोयोगः - सत्यासत्ये यथा धवखदिरपलाशादिमिश्रेषु बहुष्वाम्रवृक्षेषु आम्रवनमेवेदमिति विकल्पनपरं मनः, तत्र हि आम्रवृक्षबाहुल्यसद्भावात् सत्यता, अन्येषामपि धवखदिरादीनां सद्भावादसत्यता, व्यवहारनयमतापेक्षया चैवमुच्यते, परमार्थतः पुनरिदमसत्यम्, यथोक्ताम्रबाहुल्यधवखदिराल्पत्वचिन्तनाभावात् ॥ ३ ॥ असत्याऽमृषामनोयोग इति, यन्न सत्यं नाऽपि मृषा तदसत्याऽमृपा, इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञमताऽनुसारेण विकल्प्यते, यथा अस्ति जीवः सदसद्रूप इति तत्किल सत्यं परिभाषितमाराधकत्वात्, यत्पुनर्विप्रतिपत्तौ सत्यां यद्वस्तुप्रतिष्ठाशयाऽपि सर्वज्ञमतोत्तीर्णं विकल्प्यते यथा नास्ति जीव एकान्तनित्यो वा इत्यादि तदसत्यं विराधकत्वात्, यत्पुनर्वस्तुप्रतिष्ठासामन्तरेण स्वरूपमात्रपर्यालोचनपरं यथा देवदत्ताद् घट आनेतव्यो गौर्याचनीयेत्यादि चिन्तनपरं तदसत्यात्मृषा, इदं हि स्वरूपमात्रपर्यालोचनपरत्वान्न यथोक्तलक्षणं सत्यं नापि नृपा, एतदपि व्यवहारनयमतापेक्षया दृष्टव्यमन्यथा यद्विप्रतारणबुद्धिपूर्वकं तदसत्येऽन्तर्भवति, अन्यस्य तु सत्येऽन्तर्भावः तच्च तन्मनश्च असत्याऽमृपा मनः, तस्य योगो व्यापारोऽसत्या मृषामनोयोगः ॥ ४ ॥ वाग्योगोऽपि मनोयोगवच्चतुर्धा, तद्यथा सत्यवाग्योगः १ असत्यवाग्योगः २ सत्याऽमृषावाग्योगः ३ असत्यामृषावाग्योगः ४, एते च सत्यवाग्योगादयः सत्यमनोयोगप्रभृतिवद्भावनीया इति । औदारिककाययोगः, औदारिकशब्दार्थो जीवतत्त्वे प्राणव्याख्याप्रसङ्गे सुतरां व्याख्यातः, औदारिकमेव शरीरं तदेव पुद्गलस्कन्धसमुदायरूपत्वादाबाल्यात् S 555 A G L 12
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy