________________
श्रीनवतत्त्वसुमङ्गलाटीकायां॥६९॥
<卐>卐z
आश्रवतत्त्वे- : व्रतानि॥
27卐:卐)!
वुत्तो" इति वचनाद्वस्त्रपात्राद्युपकरणधारिणां संयतानां निष्परिग्रहत्त्वं, दुर्भगानां तु वस्त्राद्यभावेऽपि मूर्छायास्सद्भावात् सपरिग्रहत्त्वम् , उक्तश्च कलिकालसर्वज्ञैराचार्यहेमचन्द्रपुरन्दरैः;-" सर्वभावेषु मूर्छायास्त्यागस्स्यादपरिग्रहः । यदसत्स्वपि जायेत मर्छया चित्तविप्लवः" ॥१॥ यथा निरवधिधनधान्यादिभराक्रान्तः पोतः समुद्रे मजति, तथैवाऽपरिमितपरिग्रहः प्राणी नरकादौ निमजति, यदाहुः;-" महारंभयाए महापरिग्गयाए कुणिमाऽऽहारेणं पश्चिदियवहेणं जीवा नरयाउयं अजंति " तथा 'बहारम्भपरिग्रहत्त्वञ्च नारकस्याऽऽयुषः' इति, यस्मादेवं तस्मान्मुमुक्षुणा धनधान्यादिरूपो मूर्छारूपो वा परिग्रहस्त्याज्य एव ॥ ननु जिनभवनविधानादिलक्षणः परिग्रहस्य गुणः शास्त्रे । सुविख्यातः, कथं तस्य दुष्टत्त्वमव्रतत्त्वञ्च वर्ण्यते ? उच्यते-यश्च जिनप्रासादनिर्माणादिस्वरूपः परिग्रहस्य गुणः प्रवचने व्यावर्ण्यते स न गुणः, किन्तु परिग्रहस्य सदुपयोगप्रख्यापनं न तु तदर्थमेव परिग्रहधारणं श्रेयः । यदाहु-धर्मार्थ यस्य वित्तेहा तस्याऽनीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥१॥ कंचणमणिसोवाणं थंभसहस्सोसियं सुवण्णतलं, जो कारिज जिणहरं तओ वि तवसंजमो अहिओ ॥१॥द्रव्यक्षेत्रकालभावेषु मूर्च्छया चित्तविप्लवस्य प्रशमसौख्यविपर्यासात्मकस्य जायमानत्वात् चित्तविप्लवश्चाऽऽश्रवहेतुत्वात् परिग्रहसंज्ञकमप्यव्रतमेव ।।
अथ क्रमाऽऽगतं योगं त्रिप्रकारकं प्रभेदतः पञ्चदशप्रकारकं वा व्याख्यायते-तत्र युज्यते क्रियासु व्यापार्यते अथवा साम्परायिकर्यापथकर्मणा सह सम्बध्यते आत्मा अनेनेति योगः, अयं मुख्यत्वेन मनोवाकायस्त्रिभेदोऽप्यवान्तरेण पञ्चदशप्रकारोऽपि ग्रन्थान्तरेषु सुतरां व्याख्यातः, तच्चैवम् सत्यमनोयोगः, सन्तः पदार्थास्तेषु यथावस्थितवस्तुखरूपचिन्तनेन साधु सत्यं, अस्ति जीवः सदसदूपो देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुचिन्तनपरं, सत्यं च
-卐>
<1-3
>卐ry
॥६९॥
>