________________
<>Hz
>
--
भावाऽवलम्बनेन नाऽपराधी भवेत् ॥१॥ तथा यथा कश्चिद्विषगण्डूषं पीत्वा नाम तूष्णीभावं भजेत् , अन्येन चाऽदृश्यमानोऽसौ किं नाम अन्याऽदर्शनान्न म्रियेत ? ॥२॥ तथा यथा कश्चित् श्रीगृहाद्भाण्डागाराद् रत्नानि महा;णि गृहीत्त्वा पराङ्मुखस्तिष्ठेत् , किमेतावताऽसौ न गृह्येतेति? ||अत्र च यथा कश्चित् शठतयाऽज्ञतया वा शिरच्छेदविषगण्डूषरत्नाऽपहाराख्ये सत्यपि दोषत्रये माध्यस्थमवलम्बते, न च तस्य तदवलम्बनेऽपि निदुष्टत्त्वमिति, एवमत्राप्यवश्यं भाविरागकार्य सर्वदोषाऽऽस्पदे संसारवर्धके मैथुने कुतो निर्दोषता ?, उक्तश्च-"प्राणिनां मंधकञ्चैतत् शास्त्रे गीतं महर्षिभिः । नलिकातप्तकणकाप्रवेशज्ञाततस्तथा ॥१॥ मूलञ्चैतदधर्मस्य भवभावप्रवर्धनम् । तस्माद्विषान्नवत्याज्यमिदं पापमनिच्छता ॥२॥ इति चतुर्थम् ।। अथ पञ्चममत्रतं विवियते; सर्वभावेषु द्रव्यक्षेत्रकालभावरूपेषु या मूर्छा तत् परिग्रहसंज्ञकं पञ्चममव्रतम् , ननु जन्मान्तरोपार्जितदुष्कर्मप्रभावाद्ये दारिद्रयभाजस्ते तु सर्वदेव परिग्रहनामकाव्रतविरहिताः, द्रव्याद्यभावे कुतस्तेषां मूर्छा ? सत्यं, द्रव्याद्यभावेऽपि मूर्छा विद्यते, यतो दुर्भगोदयानिष्किञ्चनास्ते, न तु त्याज्यबुद्धिसमलङ्कृताः, असत्यपि धने धनगर्द्धवतो राजगृहनगरद्रमकस्येव चित्तसंक्लेशो दुर्गतिपातनिबन्धनं भवति, सत्यपि वा द्रव्यक्षेत्रकालभावलक्षणे सामग्रीविशेषे तृष्णाकृष्णाहिनिरुपद्रवमनसां प्रशमसुखप्राप्त्या चित्तविप्लवाऽभावः, अत एव धर्मोपकरणधारिणां यतीनां शरीरे उपकरणे च निममत्वानामपरिग्रहत्त्वम् , यदाह;-यद्वत्तुरगः सत्स्वप्याभरणभूषणेष्वनभिषक्तः । तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः ॥१॥ यथा च धर्मोपकरणवतामपि मूर्छारहितानां मुनीनां न परिग्रहग्रहित्त्वदोषस्तथा व्रतिनीनामपि गुरूपदिष्टधर्मोपकरणधारिणीनां रत्नत्रयवतीनां, तेनतासां धर्मोपकरणपरिग्रहमात्रेण मोक्षापवादः प्रलापमात्रम् ।। जिनेन्द्रप्रवचने तु “मुच्छापरिग्गहो
.卐卐卐sz90卐y卐र
--
<