________________
श्रीनवतत्त्वसुमङ्गलाटीकायां॥६८॥
in 55
>
आश्रवतत्त्वेऽव्रतानि॥
<
>卐
-
तज्जातीयकमेव तदाकूतोपशमनार्थ पूयरुधिरादिकं निर्माल्य मुहूर्त्तमात्रं सुखितो भवति न च दोषेणाऽनुषज्यते एवमत्रापि युवति प्रार्थनायां रमणीसम्बन्धे गण्डपरिपीडनकल्पे दोषस्तत्र कुतस्स्यात् ? न तावता क्लेदाऽपगममात्रेण दोषो भवेदिति ॥१॥ स्यात्तत्र दोषो यदि काचित् पीडा भवेत् , न चासाविहाऽस्तीति दृष्टान्तेन दर्शयति; यथा मेषः 'तिमितं' अनालोडयन्नुदकं पिबति, आत्मानं प्रीणयति, न च तथाऽन्येषां किश्चनोपघातं विधत्ते, एवमत्रापि स्वीसम्बन्धे न काचिदन्यस्य पीडा, आत्मनश्च प्रीणनम् , अतः कुतस्तत्र दोषस्स्यात् ॥२॥ दृष्टान्तान्तरं भावयति; यथा पक्षिणी कपिञ्जला साऽऽकाशे एव वर्तमाना निभृतमुदकमापिचति, एवमत्राऽपिदर्भप्रदानपूर्विकया क्रिययाऽरक्तद्विष्टस्य पुत्राद्यथं स्त्रीसम्बन्धं कुर्वतोऽपि कपिजला इव न तस्य दोषः। गण्डपीडनतुल्यं स्त्रीपरिभोगं मन्यमानाः, तथैडकोदकपानसदृशं परपीडाऽनुत्पादकत्वेन परात्मनोश्च सुखोत्पादकत्वेन किल मैथुनं जायते इत्यध्यवसायिनः, तथा कपिजलोदकपानं यथा तडागोदकाऽसंस्पर्शेन किल भवति, एवमरक्तद्विष्टतया दर्भाधुत्तारणात् स्वीगात्राऽसंस्पर्शेन पुत्रार्थन कामार्थ ऋतुकालाभिगामितया शास्त्रोक्तविधानेन जायमाने मैथुनेऽपि न दोष इत्येवं मन्तारस्ते पूर्वपक्षिणः स्वपक्षदृढीकरणाथं पुनरूचुर्यद्-"धर्मार्थ पुत्रकामस्य, स्वदारेश्वधिकारिणः । ऋतुकाले विधानेन दोषस्तत्र न विद्यते" ॥१॥ अत्रोच्यते पारमर्षप्रवचनप्रवीणैरुत्तरपक्षकारैः-"जह णाम मंडलग्गेण सिरं छत्तूर्ण कस्सइ मणुसो । अच्छेन्ज पराहुत्तो किं णाम ततो ण घिप्पेजा ? ॥१॥ जह वा विसगण्डूसं कोइ घेत्तूण नाम तुहिको । अण्णेण अदीसंतो किं नाम ततो नव मरेजा? ॥२॥ जह नाम सिरिघराओ, कोइ रयणाणि णाम घेत्तूणं । अच्छेज पराहुत्तो, किं नाम ततो न घेप्पेजा ?" ॥३॥ गाथात्रिकस्य गमनिका;-यथा नाम कश्चिन्मण्डलाग्रेण कस्यचिच्छिरः छित्त्वा पराङ्मुखस्तिष्ठेत् , किमेतावतोदासीन
>卐
-卐
sz50卐<-!
<卐
॥ ६८॥
i>卐