________________
<卐>5z!
६
मैथुनसेवनं, अन्यैश्च कारापणं, सेवमानानामन्येषामनुमोदनमिति त्रयस्त्रिभिर्गुणिता नव, एवं औदारिकाङ्गवतीभिर्मानुपीभिस्तिर्यकत्रीभिश्च सह पूर्वोक्तरीत्या मनोवाक्कायमैथुनकरणं कारापणमन्येषां चानुमोदनमिति त्रयस्त्रिभिर्गुणिताश्च जाता नव, उभयोः सम्मीलनेऽष्टादश प्रकाराः, इत्येवमब्रह्मत्यागात्मकं ब्रह्मचर्यमप्यष्टादशभेदभिन्नम् , उक्तश्च-" दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् ॥ औदारिकादपि तथा तद् ब्रह्माष्टादशविकल्पम्" ॥१॥
"प्राणसन्देह जननं, परमं वैरकारणम् , लोकद्वयविरुद्धश्च परस्त्रीगमनं त्यजेत् ॥१॥ सर्वस्वहरणं बन्धं शरीरावयवच्छिदाम् । मृतश्च नरकं घोरं लभते पारदारिकः ॥२॥ नासत्या सेवनीया हि स्वदारा अप्युपासकैः। आकरः सर्वपापानां किं पुनः परयोषितः" ॥ ३ ॥ इत्यादिप्रवचनप्रसिद्धाब्रह्मदुष्टत्वेन संक्लिष्टसंक्लिष्टतरसंक्लिष्टतमाऽध्यवसायोत्पादकत्वेनाऽब्रह्मचर्यस्यावतत्त्वे आश्रवस्वरूपे सुविख्याते सत्यपि स्त्रीपरीषहपराजिताः कामाऽऽसक्तित्त्वं भजमाना भवसमुद्रनिस्तारतरीकल्पजैनेन्द्रप्रवचनपोतपराङ्मुखा एके बौद्धविशेषा नाथवादिमण्डलप्रविष्टा बौद्धविशेषा वा एवमूचुः:-प्रियादर्शनमेवाऽस्तु, किमन्यैर्दर्शनान्तरैः। प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥१॥ जैनमार्गविद्वेषिणस्ते एवं प्रज्ञापयन्ति:-" जहा गंडं पिलागं वा, परिपिलेञ्ज मुहुत्तगं । एवं विन्नवणिस्थिसु दोसो तस्थ कओ सिया ॥२॥ जहा मंधादए नाम थिमिश्र भुंजती दगं । एवं विन्नवणिस्थिसु दोसो तत्स्थ कओ सिया ॥३॥ जहा विहंगमा पिंगा, थिमि भुंजती,दगं । एवं विनवणिस्थिसु दोसो तत्थ कओ सिया ॥३॥ एवमेगे उपासस्था मिच्छद्दिछि अणारिया । अज्झोववन्ना कामेहिं पूयणा इव तरुणए" ॥४॥ एतासामियं गमनिका; येन प्रकारेण कश्चिद्गण्डीपुरुषो गण्डं समुत्थितं पिटकं वा
<sz90
»5<y-卐>卐-卐>
-
<!