________________
za
<
श्रीनवतत्त्व सुमङ्गलाटीकायां॥६७॥
आश्रवतत्वेव्रतानि॥
>
<
क्षेत्रं कृषेत्यादि । द्वितीया अप्रिया, काणं काणमिति वदतः। तृतीया आक्रोशरूपा, यथा अरे! बान्धकिनेय ! इत्यादि । इत्येवं मृषावादनामकं द्वितीयमव्रतं सेवमानस्य काण्याश्रवन्ति अतस्तदप्याश्रवत्वेन समाख्यातम् ॥ क्लिष्टाशयपूर्वकमतथ्यवचनमाश्रवत्वेनाऽऽस्तां, प्रामादिकमप्यज्ञानसंशयादिजनितवचनं कश्रिवहेतुभूतं, यतो मुमुक्षवोऽज्ञानजन्यां वा प्रामादिकामपि मृषोक्तिं न बुवते, यदाहुमहर्षयो दशवैकालिके-“अइअम्मि य कालम्मि पच्चुपन्नमणागए । जमर्दु तु न जाणेजा एवमेअंति णो वए॥१॥ अइअम्मि य कालम्मि पच्चुपण्णमणागए । जत्थ संका भवे तं तु एवमेअंति णो वए ॥२॥ अइअम्मि य कालम्मि पच्चुपण्णमणागए। निस्संकियं भवे जंतु एवमेअंति निद्दिसे"॥३॥ इति द्वितीयमव्रतम् ॥ ___ अधुना तृतीयमव्रतं प्रतन्यते;-वित्तस्वामिना अदत्तस्य वित्तस्याऽऽदानं तत्स्तेयनामकं तृतीयमव्रतम् । तच्च स्वामिजीवतीर्थकरगुर्वदत्तभेदेन चतुर्विधम् । तत्र स्वाम्यदत्तं तृणोपलकाष्ठादिकं तत्स्वामिना यददत्तम् , जीवादत्तं यत्स्वामिना दत्तमपि जीवेनाऽदत्तं यथा प्रव्रज्यापरिणामविकलो मातापितृभ्यां पुत्रादिप्रुभ्यो दीयते । तीर्थकराऽदत्तं यत्तीर्थकरैः प्रतिषिद्धमाधाकर्मिकादि गृह्यते । गुर्वदत्तं नाम स्वामिना दत्तमाधाकर्मिकादिदोषरहितं गुरूननुज्ञाप्य यद् गृह्यते भक्ष्यते । पथि गच्छतो वाहनादेभ्रष्टं, क्वापि विस्मृतं स्वामिना यन्न स्मार्यते, क्वापि नष्टं स्वामिना यन्न ज्ञायते, स्वामिपाचे यदवस्थित, स्थापितं न्यासीकृतं इत्यादिप्रकारकं परकीयं द्रव्यं गृण्हतोऽदत्तादानदोषापत्तिः, संक्लिष्टाऽध्यवसायजनकत्वादिदमप्यव्रतम् ।। इति तृतीयम् ॥
तुर्य त्वब्रह्मसंज्ञकमवतम्-ब्रह्मणि मोक्षे चरति येन व्रतेन सर्वथा स्त्रीसङ्गत्यागात्मकेन तद् ब्रह्मचर्य, तस्याऽभावः स्त्रीष्वभिष्वङ्गलक्षणस्तदब्रह्मचर्य, तच्चाऽष्टादशधा, तच्चैवम् :-वैक्रियशरीरवत्यो देवाङ्गनास्ताभिस्सह मनसा वाचा कायेन च त्रिभिःप्रकारै
59卐yz卐05<卐)
-
-
>
॥६७॥
<