________________
>卐<3-3>9-3333zy
ददाति काले तथा फलमनल्पम् । अन्यस्य महाहिंसा स्वल्पफला भवति परिणामे ॥७॥ एकस्यैव सतीवस्य दिशति फलं सैव मन्दमन्यस्य । भवति सहकारिणामपि हिंसा वैचित्र्यमत्र फलकाले ॥८॥ प्रागेव फलति हिंसा (१) क्रियमाणा फलति (२) फलति च कृतार्था (३)। आरब्धा चाऽप्यकृता (४) फलति हिंसानुभावेन ॥९॥ एकः करोति हिंसां, भवन्ति फलभोगिनस्तथा बहवः । बहवो विदधति हिंसां हिंसाफलभुग भवत्येकः ॥ १०॥ कस्यापि दिशति हिंसा हिंसाफलमेकमेव फलकाले। अन्यस्य सैव हिंसा दिशत्यहिंसा फलं विपुलम् ॥ ११॥ हिंसाफलमपरस्य तु ददात्यहिंसा फलं तु परिणामे । इतरस्य पुनर्हिसा दिशत्यहिंसा फलं नाऽन्यत् ॥ १२ ॥ इति हिंसाऽभिधानं प्रथममवतम् ।।
अथ द्वितीयं मृषावादसंज्ञकमव्रतमाह;-मृषावादो नामाऽसत्योक्तिः, यद्वस्तु येन स्वरूपेण विद्यते तत्तथैव वक्तव्यमित्युत्सर्गः, अनेन चौरं प्रत्ययं चौरः, काणमभिलक्ष्यायं काण इत्येवं न वक्तव्यमप्रियत्वात्तस्य, एवं सत्यमपि अहितं चेत्तदप्यसत्यमेव, यथा मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो मया मृगा दृष्टा इति तज्जन्तुघातहेतुत्वान्न तथ्यम् । उक्तश्च कलिकालसर्वज्ञेराचार्यहेमचन्द्रपुरन्दरोगशास्त्रे-“ प्रियं पथ्यं वचस्तथ्यं सूनृतव्रतमुच्यते । तत्तथ्यमपि नो तथ्यमप्रियं चाहितञ्च यत्" ॥१॥ अतथ्यं वचः प्राणी हास्य-लोभ-भय-क्रोधात्मकैश्चतुर्भिः कारणैबेते, यथा हसन् हि मिथ्या ब्रूयात् , लोभपरवशश्चार्थाऽऽकाइया भयातः प्राणादिरक्षणेच्छया क्रुद्धः क्रोधतरलितमनस्कतया मिथ्या ब्रूयादिति । एतच्चाऽसत्यं चतुर्धा-भूतनिवः अभूतोद्भावनं, अर्थान्तरं, गेर्हा च तत्र च भूतनिन्हवो यथा-नास्त्यात्मा, नास्ति पुण्यं, नास्ति पापं चेत्यादि । अभूतोद्भावनं यथा सर्वगत आत्मा श्यामाकतन्दुलमात्रो वा । अर्थान्तरं यथा गामश्वमभिदधतः । गर्हा तु त्रिधा, एका सावधव्यापारप्रवर्त्तनी यथा
卐0955290卐5-.