________________
श्रीनवतत्त्वसुमङ्गलाटीकायां॥६६॥
आश्रवतत्त्वे हिंसास्वरूपम् ॥
5)<y卐> 卐卐<卐卐z!
पायस्स अहे कुकुडपोए वा बट्टपोए वा कुलिंगपोए वा परिआवजेजा, तस्स णं इरियावहिया नो संपराइया, जस्स णं कोहमाणमायालोमा सव्वथा बुच्छिन्ना तस्स णं इरियावहिया हवइ" त्ति अयं प्रथमो भङ्गः । द्रव्यहिंसायाः प्राणादित्यागरूपाया अकारकोऽपि कठोरहृदयप्रादुर्भूतरौद्रध्यानपरायणो सर्पबुद्धया रज्जुमानन् द्वितीयभङ्गवर्ती, तन्दुलमत्स्यवत् , अयं च तन्दुलमत्स्यो नवमासान् गर्भे स्थित्वा निष्क्रमणाऽनन्तरमन्तर्मुहूर्त्तमायुरिति वृद्धसंप्रदायः, सर्वे गर्भजतियचो गर्भजमनुष्यवदिति वचनात् , स च महामत्स्यमुखे गतप्रत्यागतं कुर्वाणान् मध्यमत्स्यान् दृष्ट्वा स्वमनसि 'यद्यहमेषो द्रव्यमहाकायस्स्यां तदा सर्वानभक्ष्यम् ,' इति विचारणया संक्लिष्टचित्तप्रादुर्भूतरौद्रध्यानसहचारिणीं भावहिंसां विधाय सप्तमनरकफलवान् भवति इति द्वितीयो भङ्गः । तृतीयभङ्गवर्तिनशैलेशीकरणसमापन्नाः सिद्धाश्च, तेषां योगाऽभावाद् द्रव्यभावाभ्यामप्यहिंसकत्वमिति । तथाविधदुष्टाऽध्यवसायोपपन्नेन केनचिढप्रहारादिनेव कठोरहृदयभावेन विधीयमाना हिंसा द्रव्यभावाभ्यामुभयतो हिंसा चतुर्थभङ्गान्तःपातिनी ॥ अत्र हिंसातात्पर्यप्रतिपादकाश्च श्लोकाः___कठोरहृदयत्वेन हिंसा हेयेति सोच्यते । देहनाशो भवेत् पीडा या तां हिंसां प्रचक्षते ॥१॥ दुःक्खोत्पत्तिर्मन क्लेशः, तत्पर्यायस्य च क्षयः । यस्याः स्यात् तत्प्रयत्नेन हिंसा हेया विपश्चिता ॥२॥ प्राणी प्रमादतः कुर्यात् यत् प्राणव्यपरोपणम् । सा हिंसा जगदे पाहीजं संसारभूरुहः ॥३॥ नित्यानित्ये ततो जीवे परिणाम वियुज्यते । हिंसा कायवियोगेन पीडाऽतः पापकारणम् ॥ ४ ॥ शरीरी म्रियतां मा वा ध्रुवं हिंसा प्रमादिनां । सा प्राणव्यपरोपेऽपि प्रमादरहितस्य न ॥ ५॥ अविधायाऽपि हि हिंसां हिंसाफलभाजनं भवत्येकः । कृत्वाऽप्यपरो हिंसां हिंसाफलभाजनं न स्यात् ।। ६॥ एकस्याऽल्पा हिंसा
卐0939790卐s
॥६६॥