________________
श्रीनवतत्त्व -
झुमङ्गलाटीकायां
॥ ६५ ॥
N
A
>>
V
A
T
V
S
(
कषायाः ॥
अभविष्यन् तदा सम्यग्दर्शनादिरत्नत्रय्याराधनपुरस्सरं दुरन्तसंसारपाशमुक्ताः स्युरिति शेमुष्या जायमानं शिक्षणं शुभाss- आश्रवतत्त्वे श्रवस्य हेतुः, संसारनिमित्तं जायमानं ताडनतर्जनादि अग्रशस्तं, अनन्तरतया - परम्परतया वा मोक्षाऽवाप्त्यर्थं जायमानं शिक्षणं शुभाश्रवतया विज्ञेयम् । अनया रीत्या मानमायादिष्वपि प्रशस्ता प्रशस्तत्वं स्वमनीषयोद्यं, तद्यथा-स्वकुलप्रशंसायामप्रशस्तता मानस्य, देवगुरुधर्म श्रेष्ठतासत्कं मानञ्च प्रशस्तम् । धनस्वजननिमित्ता माया अशस्ता, प्रव्रज्यादिधर्म्मार्थं M विधीयमाना च शुभा । अर्थका माऽवाप्त्यर्थं प्रवर्धमानो लोभोऽसत्, ज्ञानदर्शनचारित्रार्थमेधमानश्च सन्निति सम्यकसिद्धान्तानुसारिण्या दृष्टया तर्क्यम् ।
US555555
A
(
अनेन नैवं विज्ञेयं यत् प्रशस्तकषाय उपादेयः, यतो मुमुक्षुणा तु सोऽपि त्याज्य एव केवलं कर्म्मसत्तापरायत्ता जन्तवः प्रायशोऽप्रशस्तकषायोदयवन्तो दृश्यन्तेऽस्मिलोके, तस्मात्तमप्रशस्तं त्यक्त्वा अयं तावदुपादेयो यावत्सूक्ष्मसंपरायगुणस्थानं, अनन्तरमयमपि स्वयमेव विनङ्क्ष्यतीत्यलं विस्तरेण ।। अथाऽव्रतानिः -अव्रतं नाम व्रतस्याऽभावोऽवतं, व्रतञ्च “हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम् " तद्विपरीतञ्चाऽव्रतं तच्च प्राणातिपातमृषावादाऽदत्तादानमैथुनपरिग्रहभेदात् पञ्चधा, तत्र प्राणानामिन्द्रियादिद्रव्यप्राणानामतिपातो वियोगः प्राणातिपातः, ननु सूक्ष्मबादरादिजीवानां यथायोगं लोके सर्वत्र सद्भावाद् हिंसानिवृत्तानां विरतानामपि हिंसाप्रसङ्गः हिंसावताञ्च मोक्षप्राप्तिः सुदुर्लभा !, सत्यं भवता विरतानां संयतानां हिंसाप्रसङ्ग आसादितः परं 'हिंसा' इति शब्दस्य कोऽर्थः ? तं सावधानीभूय श्रुणुत, “ प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा " इति तत्त्वार्थवचनात् प्रमादादनुपयोगाञ्जायमाना हिंसा सैव हिंसात्वेनोच्यते, अनेनोपयोगवता अप्रमत्तेन भवि- L
踢
11 84 11