SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ N5<5>5<55<55>5< भावत्वं, माया कापट्यं, लोभस्संतोषराहित्यम् । अनन्तानुबन्ध्यप्रत्याख्यानावरणप्रत्याख्यानावरणसञ्ज्वलनभेदभिन्ना अपि क्रोधादिकषायाः पुनरेकैकश्चतुः प्रकाराः, तद्यथा - अनन्तानुबन्ध्यनन्तानुबन्धिक्रोधः १, अप्रत्याख्यानावरणाऽनन्तानुबन्धिक्रोधः २, प्रत्याख्यानावरणाऽनन्तानुबन्धिक्रोधः ३, सञ्ज्वलनाऽनन्तानुबन्धिक्रोधः ४, तत्र योऽनन्तानुबन्धिक्रोधः स्वस्वरूपेणातिशयेनोग्रः स प्रथमप्रकारकः, यश्च स्वरूपेण मन्दपरिणामवान् स द्वितीयभेदभिन्नः यस्तु स्वरूपेण मन्दतरः स तृतीयः, यश्च पुनः स्वरूपतया मन्दतमपरिणामात्मकः स सञ्ज्वलनाऽनन्तानुवृन्धिक्रोधश्चतुर्थः । एवं शेषेषु मानमायाप्रभृतिभेदप्रभेदेषु स्वधिया परिभावनीयम् ॥ उक्तरूपाः कषायाः प्रशस्ताऽऽशयेनासेव्यमानाः शुभाश्रवाणां हेतुत्वं भजन्ति, अशस्ताऽऽशयेन चाsशुभाश्रवाणां कारणतां विभ्रति, यथा जगदनुग्रहविहितानेकग्रन्थसन्दर्भकलिकालसर्वज्ञ श्रीहेमचन्द्रसूरिचरणपङ्कजचञ्चरीकायमाणपरमार्हतपरनारीसहोदर कुमारपालाऽवनी पालविहितं स्वभगिनीपत्यर्णोराजस्य रसनाऽऽकर्षणमित्र यद्वा संयमघण्टापथभ्रष्टमन्तेवासिनं प्रति चारित्रराजमार्गे स्थापयितुं गुरोः कोप इव जिनाऽऽज्ञानुसारिसाधुसाध्वीश्रावकश्राविकासमूहाऽऽत्मकस्य तीर्थकर महितस्य श्री श्रमण संघभट्टारकस्य निष्पारसंसारसिन्धूत्तारणतरीकल्पस्य जैनेन्द्रप्रवचनस्य चोड्डाहकारिणं यथेच्छमुत्सूप्रलापिनं प्रति वा यस्य कस्यचित् पारगताऽऽज्ञाप्रवीणहृदयस्य सम्यग्दृष्टेर्भव्याऽऽत्मनः कोपोद्भवस्स्यात्तत्र शुभाश्रवः । ननु मातृपित्रादयः पुत्रभार्यादिस्वजनाय कुप्यन्ति तत्र प्रशस्ताऽऽश्रवोऽप्रशस्ताऽऽश्रवो वा ? उच्यते - जननीजनकादयः स्वार्थपरायणास्सन्त इमे यदि सुशिक्षिता शुभायतयो भवेयुस्तदा वार्धक्ये वयं पुत्रकलत्रादिभिः पालिताः सुखभाजस्स्याम इति बुद्ध्या कुप्यन्ति तदा त्वप्रशस्ताश्रवः, यदि ते जनकादयो निःस्वार्थास्सन्त एवं विचारयेयुर्यदि मे स्वजनास्तत्त्वाऽवबुद्धा SUMANOSALSA
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy