________________
Z$$>-34-3><
अत्राऽऽह-एतैः पूर्वप्रपश्चितैरिन्द्रियैः कर्मबन्धः कथं स्याद्यत एतानि आश्रवतत्त्वे प्रकीर्तिताः ? उच्यते-शीतोष्णस्निग्धरूक्ष-मृदुकर्कश-गुरुलघुप्रकारोऽष्टविधः स्पर्शः स्पर्शनेन्द्रियस्य विषयः, तत्राऽनुकूलमुष्ण-स्निग्ध-मृद्वादिलक्षणं स्पर्श प्राप्य तुष्यति, प्रतिकूलं शीतादिकं च लब्ध्वा रुष्यति, तोपरोषौ च कर्माऽऽश्रवस्याऽनन्यहेतू, अतोऽनुकूलप्रतिकूलस्पर्शर्यत् कर्म बध्यते स स्पर्शनेन्द्रियाऽऽश्रवः । अम्ल-मधुर-तिक्त-कपाय-कटुलक्षणः पञ्चभेदभिन्नो रसो रसनेन्द्रियगोचरः, तत्र मधुरादि रसं संप्राप्य तुष्टिः, तिक्तादिकं चाऽऽस्वाद्य द्वेषः सुप्रतीतः, एवं रसनेन्द्रियविषयशुभाऽशुभरसाऽऽस्वादजन्यौ रागद्वेषौ रसनेन्द्रियाऽऽश्रवौ ।। सुरभिदुरभिगन्धौ घ्राणेन्द्रियगोचरौ, सुरभिगन्धमाघ्राय प्रीतिः, दुरभिगन्धं प्रति चाप्रीतिः, इति प्रीत्यप्रीतिजन्यौ घ्राणेन्द्रियाऽऽश्रवौ । रक्त-पीत-श्वेत-नील-कृष्णाऽऽत्मकं पञ्चप्रकारकं रूपं चक्षुरिन्द्रियविषयं, तत्र मनोऽनुकूलं रूपं दृष्ट्वा रागः, मनः प्रतिकूलं च वीक्ष्य द्वेषः, इति रागद्वेषौ चक्षुरिन्द्रियस्याऽऽश्रवौ । सचित्ताचित्तमिश्रभेदभिन्नः शब्दः श्रवणेन्द्रियगोचरः, तत्र मनोहराणां तुर्याणां शब्दं श्रुत्वा रतिः, खरोष्ट्रादीनां शब्दं निशम्य चाऽरतिः, शब्दमाश्रित्योत्पन्ने रत्यरती च श्रवणेन्द्रियस्याऽश्रवौ ॥ इत्येवमिन्द्रियपञ्चकस्य त्रयोविंशतिसंख्याकाः स्पर्शादिविषया अनुकूलप्रतिकूलतयाऽऽसेव्यमाना रागद्वेपोत्पादकत्वेन आश्रवास्समाख्याताः। यद्यपि निखिलाऽऽश्रवहेतवः संसारपारावारपर्यटने प्रधानकारणास्तथापि केचनाऽऽश्रवाः प्रशस्तभावेनाऽऽसेव्यमानाः पुन्यबन्धं विदधति, अप्रशस्ताशयेन च पापबन्धं वितन्वन्ति, यथा यः कश्चिल्लघुकर्मा चक्षुभ्यां प्रशमरसनिमग्नं दृष्टियुग्मप्रसन्नं सुराऽसुरनिकरनिपेव्यमाणं त्रिजगत्पूज्यं साक्षात् तीर्थंकरभगवन्तं तेषामभावे प्रतिनिधितुल्यां तन्मूर्ति वा दृष्ट्वा जातसंवेगः सन्नात्मानन्दमनुभवति, यश्च ताभ्यामेवाक्षिभ्यां ललितललनाङ्गप्रत्यङ्गदर्शनचेतस्कस्सन्