________________
श्रीनवतत्व सुमङ्गलाटीकायां
आश्रवतत्त्वे आश्रवणां शुभाशुमचम्॥
<><-95-9>55
प्राणिव्यापादकेनाऽशुभकाययोगेनाऽसद्वेद्यादिपापकर्म बध्नाति, न्यगादि च-" शरीरेण सुगुप्तेन शरीरी चिनुते शुभम् । सततारम्भिणा जन्तुघातकेनाऽशुभं पुनः" ॥१॥ ननु शुभाऽशुभयोगाः सदसत्कर्मणां कारणत्वेन सञ्जायन्ते परं ते शुभाऽशुभयोगाः केन हेतुना शुभाशुभत्वमाभजन्ति ? उच्यते-यदाऽऽत्मा पूर्वोपात्तरागद्वेषस्नेहलेशावलीढसकलाऽऽत्मप्रदेशो भवति तदा येष्वाकाशदेशेष्ववगाढस्तेष्वेव व्यवस्थितान् कार्मणशरीरयोग्याननेकरूपान् पुद्गलान् स्कन्धीभूतानाहारवदात्मनि परिणामयति सम्बन्धयतीति, ततस्तानध्यवसायविशेषाज्ज्ञानादीनां गुणानामावरणतया विभजते हंसः क्षीरोदके यथा, यथा वाऽऽहारकाले परिणतिविशेषक्रमवशादाहर्ता रसखलतया परिणतिमानयत्यनाभोगवीर्यसामर्थ्यात् , एवमिहाप्यध्यवसायविशेषात् किश्चिज् ज्ञानावरणीयतया किञ्चिद्दर्शनाऽऽच्छादकत्वेनाऽपरं सुखदुःखानुभवनयोग्यतया परश्च दर्शनचरणव्यामोहकारितयाऽन्यन्नारकतिर्यङ्मनुष्याऽमराऽऽयुष्केनाऽन्यद्गतिजातिशरीराद्याकारणाऽपरमुच्चनीचगोत्राऽनुभावेनाऽन्यदानाद्यन्तरायकारितया व्यवस्थापयति, तत्र प्रशस्तकार्येषु नियुक्तरध्यवसायैरुपात्तानि शुभफलप्रदानि कर्माणि शुभानि, तेषां कर्मणामुपचये निमित्तीभूता मनोवाकाययोगा अपि शस्ताः। अप्रशस्तकार्येषूपयुक्तः प्रविचारैरुपचितानि अशस्तफलदानि कर्माणि पापसंज्ञकानि, तेषु कारणिका मनोवाकाययोगा अप्यसन्तः इति कृतं प्रसङ्गेनेति । अथ सूत्रोक्तगाथा वित्रियते-तत्रेन्द्रियस्वरूपं जीवतत्त्वे 'पणिंदिय' ति गाथायां सविस्तरं प्रपश्चितं, तथापि स्थानाऽशून्यार्थं नामतो लिख्यते-स्पृश्यते स्वविषयः स्पर्शलक्षणोऽनेनेति स्पर्शनं त्वगिन्द्रियम् । रस्यते आस्वाद्यते रसोऽनयेति रसना-जिह्वेन्द्रियम् । घ्रायते गन्धोऽनेनेति घ्राणम्-नासिकेन्द्रियम् । चक्षुर्लोचनम्-चक्षुरिन्द्रियम् , श्रूयते आकर्ण्यते शब्दोऽनेनेति श्रोत्रम्-श्रवणेन्द्रियम् ।
॥६३॥