________________
9zss><-54-5>
धस्सलिले, एवमिन्द्रियाद्याश्रवच्छिद्रसंपन्नो जीवपोतः प्रतिसमयं कर्मजलेनाऽऽपूर्यते दुरन्तसंसारपारावारे निमजति चेति भावार्थः । इदं वक्ष्यमाणखरूपमाश्रवतत्त्वं द्विचत्वारिंशद्भेदाऽऽत्मकं तथापि विवक्षया पश्चप्रकारं त्रिप्रकारं वा ग्रन्थान्तरेषु विवृतं, तथा च तद्न्थः -"पंचविहो पन्नत्तो, जिणेहिं इह अण्हओ अणादीओ । हिंसामोसमदत्तं अबंभपरिग्गह चेव" ॥१॥ (प्रश्नव्या० गाथा-२) " कायवाङ्मनःकर्मयोगः" "स आश्रवः" "शुभः पुन्यस्य," "अशुभः पापस्य" (तचा अ० ६-०१-२-३-४)। परमाहतपरनारीसहोदरकुमारपालमहीपालप्रतिबोधककलिकालसर्वज्ञाऽऽचायश्रीमद्धेमचन्द्रमूरिपादैरपि योगशास्त्रे न्यगादि:-" मनोवाकायकर्माणि योगाः कर्म शुभाऽशुभम् । यदाश्रवन्ति जन्तूनामाश्रवास्तेन कीर्तिताः" ॥१॥ इत्येवमाश्रवस्य विवक्षया भिन्नभिन्नभेदाः सञ्जायन्ते, तथापि तेषु भेदप्रभेदेषु पूर्वोतानां मनोवाकाययोगानां शुभाशुभत्वमेव शुभाऽशुभकर्मबन्धे निमित्तत्वम् । मैश्यादिभावनाभाविताऽन्तःकरणः सद्वेद्यसम्यक्त्व-हास्य-रति-पुरुषवेद-शुभाऽऽयु-र्नाम-गोत्रलक्षणं शुभं कर्म सश्चिनुते । स एवाऽन्यो वा विषयकषायकलुषित चेतस्को ज्ञानावरणीयाद्यशुभं कर्म वितनोति, उक्तं । चाचार्यहेमचन्द्रमतल्लिकाभिः:-'मैत्र्यादिवासितं चेतः कर्म सूते शुभाऽऽत्मकं । कषायविषयाऽऽक्रान्तं वितनोत्यशुभं पुनः॥१॥ द्वादशाङ्गस्वरूपप्रवचनस्याविरोधेन विद्यमानं जैनेन्द्रमवितथं वचो ब्रुवाणः शुभं कर्म अर्जयति, तदेव प्रवचनविरोधि वचो भाषमाणः अशुभं कर्म बध्नाति, तथा चोक्तं;-'शुभाजेनाय निर्मिथ्यं श्रुतज्ञानाऽऽश्रितं वचः। विपरीतं पुनझेंयमशुभाजनहेतवे ॥१॥ एवं काययोगेऽप्यूह्यम् , तच्चैव-कायोत्सर्गाद्यवस्थायामसच्चेष्टारहितेन काययोगेन जन्तुः सवेद्यादिपूर्वव्याख्यातं सत्कर्म चिनुते । स एवाऽन्यो वाऽऽत्मा महारम्भिणा
50593yzEOss