________________
z卐
श्रीनवतत्त्वसुमङ्गलाटीकायां
॥ अथ आश्रवतत्त्वम् ॥
पश्वमाऽऽश्रवतत्त्वप्रारम्भः॥
>y
-5
नैर्ग्रन्थ्यं प्रति प्रस्थिताँश्च विरतान् सत्त्वानुकम्पाऽमृषाऽ-स्तेयब्रह्मसुतोषपोषणरतान् सद्ध्यानसंपद्गतान् । योगातीतपदाभिलाषकुशलान् योगत्रयाराधकान् निद्रव्यानपि बोधिरत्नसुनिधीन ध्यायामि योगीश्वरान १
जीवाऽ-जीव-पुन्य-पापाख्यानि चत्वारि तत्वानि व्याख्यातानि, अथाऽनन्तरव्यावर्णितपुन्यपापयोः शुभाशुभाऽऽश्रवस्वरूपत्वादुद्देशक्रमाऽऽयातमाश्रवतत्वं विवियते, तत्रादावाश्रवतत्त्वस्य द्विचत्वारिंशद्भेदप्रतिपादिकामिमां गाथामाह
इन्दिय कसाय अवय-जोगा पंच चउ पंच तिणि कमा।
किरियाओ पणवीसं, इमा उ ताओ अणुक्कमसो॥ २१॥ टीका-आ अभिविधिना श्रवति कर्म येभ्यस्ते आश्रवा इन्द्रियादयः, अथवा आश्रूयते आगम्यते आनीयते इति यावदनेन कम्मोदकं जीवतडागेष्विवेत्याश्रवः, यथा पाथोधिमध्यवर्तिसच्छिद्रा नौजलेनाऽऽपूर्यते जलाऽऽक्रान्ता निमजति चाऽ
->卐र
॥६२॥