________________
Zyg>卐)-55->)!
ननपञ्चक-मध्यसंस्थानचतुष्क-एकेन्द्रियादिजातिचतुष्क-पुंवेद-स्त्रीवेद-तिर्यद्विकस्वरूपैकविंशतिप्रकृतिवर्जा एकषष्टिपापप्रकृतीनरकगतौ नारका विपाकेनाऽनुभवन्ति, स्त्यानईित्रिकस्याऽध्रुवोदयित्वात् त्रिकहीनाश्च पुनरष्टपञ्चाशदपि विज्ञेयाः। स्थावर-मूक्ष्म-साधारणैकेन्द्रियादिजातिचतुष्क-तिर्यद्विक-नरकत्रिकाऽऽत्मकद्वादशप्रकृतिहीनाः सप्ततिप्रकृतयो मनुजगत्यामुदयत्वेन मनुजैरनुभूयन्ते । नरकत्रिकवर्जा एकोनाऽशीतिपापप्रकृतयस्तिर्यग्गतावुदयतयाऽनुबोभूयन्ते । दुःस्वर-नरकत्रिक-पुरुषवेद-खीवेद-दीन्द्रियजाति-त्रीन्द्रियजाति-चतुरिन्द्रियजाति-अप्रशस्तविहायोगति-अन्तिमसंहननपञ्चक-मध्यसंस्थानचतुष्काऽऽत्मकैकोनविंशतिवर्जास्त्रिषष्टिप्रकृतय एकेन्दियजातावुदयत्वेन वर्तन्ते । एवं द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातावपि विज्ञेयम् । केवलं हीयमानैकोनविंशतिप्रकृतिषु एकेन्द्रियजात्याः स्थाने यथाक्रमं द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियजातयो वक्तव्याः। पश्चेन्द्रियजात्यां पुनरेकेन्द्रियादिजातिचतुष्क-सूक्ष्म-साधारण-स्थावरलक्षणाः सप्त प्रकृतीर्वजयित्वा शेषाः पञ्चसप्ततिप्रकृतय उदयवत्यो भवन्ति, एवं काययोगादिमार्गणास्वपि स्वयमभ्यूह्यम् ॥ इति पापतत्त्वम् ॥
तुरीयतत्त्वव्याख्यानेनोपात्तं तु यन्मया सुकृतम् । पापं विधूय तेन वजन्तु शिवधाम्नि विद्वांसः॥१॥ इत्याराध्यपादाऽऽचार्यवर्यश्रीमद्विजयमोहनसूरीश्वरविनेयावतंसोपाध्यायपदालङ्कृतश्रीमत्प्रतापविजयगणिशिष्याणुप्रवर्तकमुनिश्रीधर्मविजयविरचितायां नवतत्त्वप्रकरणसुमङ्गलाटीकायां
तुरीयं पापतत्त्वं समाप्तम् ॥
卐DE卐yzs05
!