________________
N
卐
श्रीनवतचसुमङ्गलाटीकायां
पापतत्त्वे स्थावरदशकम् ॥
卐>)
॥६१॥
)
कायभाजः समाविशन्ति, तत्स्थावरनाम ॥१॥ यत्प्रभावाच्च सर्वलोकव्यापिसूक्ष्मपृथिव्यादिजीवेषु जीवास्समुत्पद्यन्ते येन जीवाश्चर्मचक्षुषामदृश्या भवन्ति यथा निगोदादयस्तत् सूक्ष्मनाम ॥ २॥ यदुदयादाहारपर्याप्त्यादिपूर्वोक्ताः पर्याप्तय एकेन्द्रियादिजीवानां यथास्वं विकला अपरिपूर्णा भवन्ति यथा सर्वकालं लब्ध्यपर्याप्तानां तदपर्याप्तनाम ॥३॥ यत्सामर्थ्यादनन्तानां जीवानां साधारणमेकं शरीरं भवति यथा कंदाद्यनन्तकायिकानां तत्साधारणनाम ॥४॥ येन जीवानां भ्रूजिह्वौष्ठादीनामवयवानामस्थिरत्वं स्यात्तदस्थिरनाम ॥ ५॥ यदुदयेन नामेरधः पादादयोऽशुभावयवास्सन्ति तदशुभम, पादादिभिस्स्पृष्टो हि परो रुष्यतीति तेषामशुभत्वम् ॥६॥ यदुदयादृष्टमात्रोऽपि प्राणी सर्वेषामुद्वेगजनकस्स्यात्तदुर्भगनाम, असुभगनामेति यावत् ॥७॥ येन जीवानां खरोष्ट्रादीनामिवाऽमनोज्ञः स्वरः स्यात्तदुःस्वरनाम ॥८॥ यदुदयाद्युक्तियुक्तमपि बुवाणः परिहायेवचनोऽग्राह्यवचनो भवति तदनादेयनाम ॥९॥ यदुदयाज्ज्ञानविज्ञानदानाऽऽदिगुणयुतस्यापि न यश-कीती प्रादुर्भवतः प्रत्युताऽश्लाध्यता संजायते तदयश-कीर्तिनाम ॥ १०॥ इत्येवं स्थावरदशकं पुण्यतच्वोक्तत्रसदशकाद् विपरीताऽर्थं भावनी यम् ॥ व्याख्याता व्यशीतिपापप्रकृतयः। तासां मध्ये देवनारकादिषु चतसृषु गतिषु कस्यां गतौ कति प्रकृतय उदयवत्यो भवन्ति ? 'एकेन्द्रियादिजातिपञ्चकमध्ये कस्यां च जातौ कति प्रकृतय उदयवत्यो वर्त्तन्ते तस्याऽयं संक्षेपःदेवगतौ-स्थावर-सूक्ष्म-साधारणा-ऽपर्याप्त-नरकत्रिक-नपुंसकवेद-तिर्यगद्विक-एकेन्द्रियादिजातिचतुष्क-ऋषभनाराचप्रभृतिसंहननपश्चक-न्यग्रोधादिसंस्थानपञ्चका-प्रशस्तविहायोगति-दुःस्वर-नीचैर्गोत्रलक्षणसप्तविंशतिप्रकृतिवर्जाः पञ्चपश्चाशत् प्रकृतयः स्त्यानचित्रिकहीनाश्च पुनर्द्विपञ्चाशत् प्रकृतय उदयत्वेन वरीवर्त्तन्ते ।। स्थावर-सूक्ष्मा-ऽपर्याप्त-साधारण प्रथमवजेसंह
६८5230
)
)
)
॥ ६१॥
)