SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ iz) in卐卐३) ) ) )-y मर्कटबन्धः, यस्मिन्नस्थिसंधावुभयतो मर्कटबन्धो मर्कटबन्धस्योपरिष्टाच्च पट्टः स्यात्तद् ऋषभनाराचम् , अन्ये तु वज्रनाराचमिदं व्यपदिशन्ति, तन्मतेन ऋषभवर्जमर्कटबन्धबद्धाऽस्थ्नोरन्तः कीलिकैवान भवति, वज्रशब्दस्य कीलिकापर्यायत्वात् । ७३ । वज्रर्षभविहीनमुभयतो मर्कटबन्धयुक्तं तृतीयं संहननं नाराचम् । ७४ । यत्रैकपाधै मर्कटबन्धोऽपरपार्श्वे च कीलिका तदर्धनाराचम् । ७५ । यत्राऽस्थीनि कीलिकामात्रबद्धानि स्युस्तत् कीलिकाख्यम् । ७६.1. यत्र पुनरस्थीनि पृथक पृथक स्थितानि परस्परं संलग्नानि भवंति तत् सेवां ऋतं आगतं निपातनात्सेवार्तम् । ७७ । एवं पञ्चसंख्यानि संस्थानानि द्वितीयादीनि यथाक्रमं न्यग्रोधपरिमंडल-सादि-वामन-कुब्ज-हुण्डानि । तत्र न्यग्रोधवद्वट इव परिमंडलं न्यग्रोधपरिमंडलम् , यथा न्यग्रोध उपरि सम्पूर्णाऽवयवोऽधस्तनभागे तु न तथा, तद्वदिदमपि नाभेरुपरि विस्तरबहुलं सम्पूर्णलक्षणादिभाग, अधस्तु न तथा । ७८। 'सादीति' आदिरिहोत्सेधाऽऽख्यो नाभेरधस्तनो देहभागस्तेन यथोक्तलक्षणप्रमाणभाजा सह यद्वर्त्तते तत्सादिः । ७९ । कुब्जसंस्थानं यत्र पाणिपादशिरोग्रीवादिकं प्रमाणलक्षणोपेतम् , उरउदरादि च प्रमाणलक्षणाभ्यां हीनं तत् कुब्जम् । ८० । तद्विपरीतं वामनसंस्थानम् , यत्र उरउदरप्रभृतिप्रमाणलक्षणयुक्त पाणिपादशिरोग्रीवादि च प्रमाणलक्षणरहितं तद् वामनमित्यर्थः ॥ ८१ ।। सर्वाऽवयवैरशुभं हुंडसंस्थानम् ।। ८२ ॥ १९ ॥ प्रागुक्तं व्यशीतिभेदगतं स्थावरदशकमथ वित्रियतेथावरसुहमअपज्जं, साहारणमथिरमसुभदुभगाणि। दुस्सरणाइज्जजसं, थावरदसगं विवज्जत्थं ॥२०॥ टीका-तिष्ठंति उष्णादितप्ता अपि तत्परिहाराऽसमर्था भवन्ति ते स्थावराः, यद्विपाकतः पृथिव्यायेकेन्द्रियस्थावरकाये z卐0卐 - - >卐 !
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy