SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ z! > श्रीनवतत्त्वसुमङ्गलाटीकायां॥६ ॥ पापतत्त्वे भेदप्रति|पादनम्॥ < >) टीका- इग' त्ति- यया एकेन्द्रियो द्वीन्द्रियस्त्रीन्द्रियश्चतुरिन्द्रियो वेति व्यपदेशमश्नुते जीवः सा सा एकेन्द्रियादि| जातयः, एकेन्द्रियादयश्चैकद्वित्रिचतुः संख्यस्पर्शन-रसन-प्राण-चक्षुःस्वरूपेन्द्रियक्रमवृद्धिभाजो विज्ञेयाः ६३-६४-६५-६६ । यदुदयेन खरोष्ट्रादीनामिवाऽप्रशस्तगमनमङ्गिनामुपजायते सा कुत्सिता खगतिरप्रशस्तविहायोगतिरित्यर्थः, विहाय पर्यायवाचकखशब्दश्च नामकर्म प्रथमप्रकृतिव्यवच्छेदार्थः, अन्यथा कुगतिरित्युक्ते नरकगत्यादिभवगतेरपि प्रतीतिस्स्यात् । ६७ । यद्वशेन स्वशरीरावयवैरेव प्रतिजिह्वा-गलवृन्दलम्बक-चौरदन्तादिभिः स्वशरीरान्तवर्द्धमानैरुपहन्यते पीब्यते तदुपघात नाम, ६८ । 'हुंति पावस्स ' अमी पूर्वोक्ता भेदा निखिला अपि पापस्याऽशुभकर्मणो भवन्ति। 'हुंति पावस्स' इति पदं डमरूकमणिन्यायेन गाथापूर्वार्धे यथा युक्तं तथा गाथापश्चार्धेऽपि योज्यम् । वक्ष्यमाणा अप्रशस्तवर्णादयोऽपि पापभेदा एवेत्यर्थः । प्रशस्यते स्तूयते तत्प्रशस्तं, न तथाऽप्रशस्तमशोभनमिति यावत् , यस्योदयेन जीवस्यौदारिकादिशरीरं कृष्णनीलवर्णवद्भवति काककोकिलादीनां यथा तदप्रशस्तवर्णनाम ६९ । यदुदयेन जीवस्यौदारिकादिशरीरं दुर्गन्धि भवति लशुनादिनामिव तदप्रशस्तगन्धनाम ७०। यदुदयेन जीवस्यौदारिकादिशरीरं तिक्तकटुकरसभाम् भवति यथा निम्बमरिचादीनां तदप्रशस्तरसनाम ७१ । यदुदयेनाऽऽत्मन औदारिकादिशरीरंशीतकर्कशगुरुरूक्षस्पर्शभाग् भवति क्रमशो जलवृक्षपर्णविशेषपारगरेणूनामिव तदप्रशस्तस्पर्शनाम ७२ । 'अपसत्थं वण्णचउ अपढमसंघयण संठाणा' प्रथमं संहननं प्रथमश्च संस्थानं वर्जयित्वा शेषाणि पश्चसंहननानि पञ्चसंस्थानानि च पापप्रकृतिमध्ये ज्ञातव्यानि, प्रथमसंहननं प्रथमसंस्थानश्च पुण्यप्रकृतिमध्ये प्रागेव व्याख्यातम् । अन्तिमसंहननपश्चकं च ऋषभनाराच-नाराचाऽ-र्धनाराच-कीलिका-सेवा भिधम् । तत्र ऋषभः परिवेष्टनपट्टः, नाराच उभयतो 092EEKSz卐0525-卐y > - <3 ॥६ ॥ >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy