________________
z58759-
ख्यानाऽऽवरणाः कोपादयो मासचतुष्टयभाविनो मनुष्यगतिदायिनस्साधुधर्मघातिनः। ये पुनस्सवलयन्तीपदीपयन्ति चारित्रिणमपि क्रमशो जलरेखा-तिनिशलता-अवलेखा-हरिद्रारागसमानास्ते सञ्चलनक्रोधादयः पक्षावधयो देवगतिप्रदा यथाख्यातचारित्रघातिनः, एवं क्रोधादयः प्रत्येकं चतुर्भेदाः पोडशाऽभूवन् ॥ ५१ ।। नोकषाया नव-हास्यादिपदकवेदत्रयरूपा, तत्र हास्यपदकं हास्य-रति-अरति-शोक-भय-जुगुप्सालक्षणं ज्ञातव्यम् , तत्र येन सनिमित्तं निनिमित्तं वा हास्यं स्यात्तद् हास्यमोहनीयम् ५२ । येन कर्मणा मनोहरेषु शब्दरूपादिपदार्थेषु रागस्स्यातद्रतिमोहनीयम् ५३ । येन कर्मणा पुनरमनोज्ञेषु शब्दादिपुढेगस्स्यात्तदरतिमोहनीयम् ५४ । येनाऽभीष्टवियोगादिदुःखं ध्रियते तच्छोकमोहनीयम् ५५ । येन कर्मणा जीवानां नानाविधैर्निमित्तैर्भयमुत्पद्यते तद्भयमोहनीयम् ५६ । यस्योदयेन वीभत्सवस्तुदर्शनेन निन्दादिकं करोति तज्जुगुप्सामोहनीयम् । ५७। अथ वेदत्रयं पुरुषवेद-स्त्रीवेद-नपुंसकवेदाऽत्मकं, तत्र यस्योदयेन पुंसः श्लेष्मोदयादम्लाभिलाषवत् स्त्रियं प्रत्यभिलाषः स पुरुषवेदस्तृणदाहतुल्यः ५८ । येनोदितेन स्त्रियाः पित्तोदये मधुराभिलाषवत् पुरुषं प्रत्यभिलाषः स स्त्रीवेदः करीपदाहतुल्यः ५९ । येनोदितेन कर्मणा पण्डकस्य पित्तश्लेष्मोदये मजिकाभिलाषवत् पुंस्त्रीविषयेऽभिलाषस्स्यात् स नपुंसकवेदो नगरदाहतुल्यः ६० । एवं पोडशकषायैर्नवनोकषायैः कषायपञ्चविंशतिर्विवृता । तिर्यद्विकं तिर्यग्गतितिर्यगानुपूर्वीरूपम् , येन कर्मणा तिर्यग्गतौ गम्यते तत्तिर्यग्गतिनाम ६१ । येन तिर्यग्गतौ बलान्नीयते सा तिर्यगानुपूर्वी ॥ ६२॥
इत्येवं पापतत्त्वस्य व्यशीतिभेदेषु द्विषष्टिर्भेदाः प्रकीर्तिताः, अथ शेषभेदान् विवरिषुराह;इगबितिचउजाइओ, कुखगइ उवघाय हुंति पावस्स।अप्पसत्त्थं वण्णचउ, अपढमसंघयण संठाणा २२
ins卐३yz卐05-5
-
>'
!