________________
N
A
5
V
A
5
5-595-5
T
A
T
V
ऽऽवरणं केवलदर्शनावरणमिति १४ । एतदर्शनावरणचतुष्कं दर्शनलब्धिलाभं मूलत एव हन्ति ॥
N
'द्रा' कुत्सायां गतौ, नियतं द्राति कुत्सितत्त्वमविस्पष्टत्त्वं गच्छति चैतन्यमनयेति निद्रा, सुखप्रबोधा स्वापाऽवस्था नखच्छोटिकामात्रेणाऽपि प्रबोधो भवति तद्विपाकवेद्या कर्म्मप्रकृतिरपि निद्राख्यया व्यपदिश्यते १५ । तथा निद्राऽतिशायिनी M निद्रानिद्रा, शाकपार्थिवत्वान्मध्यम पदलोपी समासः, सा पुनर्दुःखप्रबोधा स्वापाऽवस्था, तस्यां ह्यत्यर्थमस्फुटतरीभूतचैतन्यत्त्वाद्दुःखेन बहुभिर्घोलनादिभिः प्रबोधो भवति, अतः सुखप्रबोधनिद्रापेक्षया अस्या अतिशायिनीत्वं तद्विपाकवेद्या कर्म्मप्रकृतिरपि कार्यद्वारेण निद्रानिद्रेत्युच्यते १६ । उपविष्ट ऊर्ध्वस्थितो वा प्रचलत्यस्यां स्वापाऽवस्थायामिति प्रचला, सा हि उपविष्टस्योर्ध्वस्थितस्य वा घूर्णमानस्य स्वप्तुर्भवति, तथाविधविपाकवेद्या कर्म्मप्रकृतिरपि प्रचलेत्युच्यते १७ । तथैव प्रचलाऽतिशा - यिनी प्रचलाप्रचला, सा हि चंक्रमणादिकुर्वतः स्वप्तुर्भवत्यतः स्थानस्थितस्वप्तृभवां प्रचलामपेक्ष्याऽतिशायिनी, तद्विपाकवेद्या कर्म्मप्रकृतिरपि प्रचलाप्रचला, १८ । स्त्याना बहुत्वेन संघातमापन्ना, गृद्धिरभिकाङ्क्षा जागृदवस्थाऽध्यवसितार्थसाधनविषया G यस्यां स्वापाऽवस्थायां सा स्त्यानगृद्धिः, तस्यां हि सत्यां जागृदवस्थाऽध्यवसितमर्थं साधयति, स्त्याना वा पिण्डिीभूता ऋद्धिरात्मशक्तिरूपाऽस्यामिति स्त्यानर्द्धिरित्युच्यते, तद्भावे हि स्वप्तुः केशवाऽर्धबलसदृशी शक्तिराविर्भवति, अथवा स्त्याना जडीभूता चैतन्यर्द्धिरस्यामिति स्त्यानर्द्धि:, अस्यां निद्रायां घूर्णितो जन्तुर्जागृजन इव गृहान्तर्गमनाऽऽगमनं कुरुते, आपणवीथ्यां गत्वा क्रयविक्रयं करोति, वनान्तर्वनपशुभिस्सह युद्धादिकं विदधाति, मतङ्गजानां दन्तादि निष्कास्या- 1 ssनयति च । अस्यां निद्रायां निद्रितः प्रथमसंहननोपेतश्चेत्तदा केशवाऽपेक्षयाऽर्धबली स्यात् । यदि प्रथमवर्जसंहननोपेतो भवे