________________
>卐
श्रीनवतत्त्वसुमङ्गलाटीकायां
पापतत्त्वे भेदप्रति|पादनम्॥
<卐
॥५८॥
>卐
-卐
स्त्रज्ञानं तच्छुतज्ञानं, तद्येनाब्रियते तच्छुतज्ञानावरणम् ॥२॥ इन्द्रियनोइन्द्रियनिरपेक्ष मूर्तद्रव्यविषयमात्मप्रत्यक्षं यज्ज्ञानं तदवधिसंज्ञक, तद्यनाऽऽबियते तदवधिज्ञानावरणीयम् ॥ ३॥ इन्द्रियनोइन्द्रियनिरपेक्षं संज्ञिपञ्चेन्द्रियजीवमनोगतभावज्ञापकमात्मप्रत्यक्षं यज्ज्ञानं तन्मनःपर्यायज्ञानम् , तद्यनाच्छाद्यते तन्मनःपर्यवज्ञानावरणीयम् ।। ४ ॥ मनइन्द्रियनिरपेक्षं लोकाऽलोकवर्तिनिःशेषद्रव्यपर्यायप्रदर्शकमात्मप्रत्यक्षं सम्पूर्णमनन्तं यज्ज्ञानं तत्केवलज्ञानम् , तद्येनाब्रियते तत्केवलज्ञानावारकं कर्म ॥५॥ यदुदयादातव्यनिरवद्यद्रव्यसत्तायामपि गुणवत्पात्रदानफलज्ञोऽपि सम्यग्भावे विद्यमानेऽपि दातुं न शक्नोति तद्दानान्तरायम् ६ । यदनुभवाच सत्यपि देये प्रसिद्धादपि दातुर्याश्चाकुशलोऽपि न लभते तल्लाभान्तरायम् ७ । भोग्यमुपभोग्यं वा विद्यमानमनुपहताङ्गोऽपि यदुदयान समथों भवति भोक्तुमुपभोक्त्तुं तद्धोगान्तरायमुपभोगान्तरायं च क्रमेण बोध्यम् ८-९। यदुदयादनुपहतपीनाङ्गोऽपि कार्यावसरे शक्तिविकलो भवति तबीर्यान्तरायम् ॥१०॥ इत्येवं ज्ञानावरणपश्चकमन्तरायपश्चकश्च विवृतम् ।
अथ दर्शनावरणनवकमशुभप्रकृतिभृतं व्याख्यायते-'नव बीए' त्ति, चक्षुषा सामान्यग्राही बोधश्चक्षुर्दर्शनं, तल्लब्धिविघातकं चक्षुर्दर्शनावरणम् , यदुदयादन्धत्त्वं नेत्ररोगित्त्वं वा जायते तचक्षुदर्शनावरणमित्यर्थः ११ । चक्षुर्वर्जशेपेन्द्रियचतुष्केन मनसा च स्पर्शनाद्यात्मकः सामान्यबोधस्तदचक्षुर्दर्शनम् , तल्लब्धिविघातकमचक्षुदर्शनावरणम् , यदुदयाद् बधिरत्वादयो दोषाः प्रादुर्भवन्ति तदचक्षुर्दर्शनावरणमित्यर्थः १२। तथाऽवधिना रूपिमर्यादया दर्शनं सामान्यबोधस्तदवधिदर्शनम् , तस्याऽऽवरणमवधिदर्शनावरणम् , यदयान्मर्त्तद्रव्याणामात्मप्रत्यक्षस्सामान्यार्थग्राहको बोधो न भवति तदवधिदर्शनावरणमित्यर्थः १३ । यदुदयात् समस्तलोकाऽलोकवतिनां मृर्ताऽमृर्त्तद्रव्याणामात्मप्रत्यक्षेन सामान्यात्मकेन बोधेन भृयते तत्केवलदर्शनम् , तस्या
99z50y5-ye
>5
-
<
॥ ५८॥
>