SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ N5A5V5AST S A रालाऽवस्थितमतिज्ञानावरणादिक्षयोपशमरूपविवरनिर्गतप्रकाशो जीवादीन् प्रकाशयति, स च तथा प्रकाशयन् मतिज्ञानमित्यादिलक्षणं तत्तत्क्षयोपशमानुरूपमभिधानमुद्वहति, ततो यथा सकलघनपटलकटकुट्याद्यावरणापगमे स तथाविधः प्रकाशः सहस्रभानोरस्पष्टरूपो न भवति किन्तु सर्वात्मना स्फुटरूपोऽन्य एव, तथेहापि सकलकेवलज्ञानावरणमतिज्ञानाद्यावरणविलये न तथाविधो मतिज्ञानादिसंज्ञितः केवलज्ञानस्य प्रकाशो भवति, किन्तु सर्वात्मना यथावस्थितं वस्तु परिच्छिन्दन् परिस्फुटरूपोऽन्य एवेत्यदोषः । उक्तञ्च श्रीपूज्यैः 'कटविवरागयकिरणा मेहंतरियस्स जह दिणेसस्स । ते कडमेहावगमे न हंति जह तह इमाईपि ' ॥ १ ॥ अन्यैरपि न्यगादि – “ मलविद्धमणेर्व्यक्तिर्यथानेकप्रकारतः । कर्म्मविद्धाऽऽत्मविज्ञप्तिस्तथानेकप्रकारतः ॥ १ ॥ यथा जात्यस्य रत्नस्य निःशेषमलहानितः । स्फुटैकरूपाभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः " ॥ २ ॥ अन्ये पुनराहुः, सन्त्येव मतिज्ञानादीन्यपि सयोगिकेवल्यादौ, केवलमफलत्वात् सन्त्यपि तदानीं न विवक्ष्यन्ते, यथा सूर्योदये नक्षत्रादीनि उक्तश्च - ' अने आभिनिबोहियनाणाईणि वि जिणस्स विजंति । अफलाणि य सूरुदये जहेव नक्खत्तमाइणि ' ॥ १ ॥ असाधारणं वा केवलमनन्यसदृशत्वात्, अनन्तं वा केवलं ज्ञेयानन्तत्त्वात् अपर्यवसितानन्तकालावस्थायित्त्वाद्वा, निर्व्याघातं वा केवलं लोकेऽलोके वा क्वापि व्याघाताऽभावात्, केवलश्च तज्ज्ञानं केवलज्ञानं यथावस्थितसमस्तभूतभवद्भाविभावस्वभावाऽव भासि ज्ञानमिति भावना ॥ एतेषां मतिज्ञानादीनां यद् यदावरणं तत्तत् तज्ज्ञानावरणसंज्ञकम् । यथा इन्द्रियानिन्द्रियजन्यं परोक्षमक्षरलब्धिरूपं मतिज्ञानं, तद्येनाऽऽव्रियते तन्मतिज्ञानावरणम् ॥ १ ॥ इन्द्रियानिन्द्रियजन्यं परोक्षमर्थोपलब्धिरूपं ज्ञानमथवा द्वादशाङ्गीरूपं यच्छा US5<5Z505<LA
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy