________________
पापतत्त्वे
श्रीनवतत्त्वसुमङ्गलाटीकायां॥५७॥
पञ्चज्ञान वर्णनम् ॥
izs<755-5<->जर
मनःपर्यवश्च स ज्ञानं मनःपर्यवज्ञानं, यद्वा मनःपर्यायज्ञानम् । तत्र संझिभिजीवैः काययोगेन गृहितानि मनःप्रायोग्यवर्गणाद्रव्याणि चिन्तनीयवस्तुचिन्तनव्यापृतेन मनोयोगेन मनस्त्वेन परिणमय्याऽऽलम्ब्यमानानि मनांसीत्युच्यन्ते, तेषां मनसां पर्यायाश्चिन्तनानुगताः परिणामा मनःपर्यायास्तेषु तेषां वा सम्बन्धिनानं मनःपर्यायज्ञानम् , यद्वा आत्मभिर्वस्तुचिन्तने व्यापारितानि मनांसि पर्येति अवगच्छतीति मनःपर्यायम् । अयमत्राशयः, मनो द्विविधं द्रव्यमनो भावमनश्च, तत्र द्रव्यमनो मनोवर्गणा, भावमनस्तु ता एव वर्गणा जीवेन गृहीताः सत्यो मन्यमानाश्चिन्त्यमाना भावमनोऽभिधीयते, तत्रेह भावमनः परिगृह्यते, तस्य भावमनसः पर्यायास्ते चैवंविधाः, यदा कश्चिदेवं चिन्तयेत् किं स्वभाव आत्मा? ज्ञानस्वरूपोऽमूर्तः, कर्मणां कर्ता सुखादीनामनुभोक्ता इत्यादयो ज्ञेयविषयाऽध्यवसायाः परगतास्तेषु तेषां वा यज्ज्ञानं तन्मनःपर्यायज्ञानम् । तानेव मन:पर्यायान् परमार्थतः समवबुध्यते, बाह्याँस्त्वनुमानादेवेत्यसौ तन्मनःपर्यायज्ञानम् ।। केवलं सम्पूर्णज्ञेयं तस्य तस्मिन् वा सकलज्ञेये यज्ज्ञानं तत्केवलज्ञानम् , सर्वद्रव्यपर्यायपरिच्छेदीति भावः, अथवा केवलमेकं मत्यादिज्ञानरहितमात्यन्तिकज्ञानावरणक्षयप्रभवं, 'नट्टम्मि छाउमथिए नाणे' इति वचनात् । अत्राह:-यदि मत्यादीनि ज्ञानानि स्वकीयखकीयाऽऽवरणक्षयोपशमसद्भावेऽपि प्रादुर्भवन्ति, ततो निःशेषतः स्वीयाऽऽवरणक्षये सविशेषेण भवेयुश्चारित्रपरिणामवत् , कथं क्षायिकज्ञानस्याऽऽविर्भावे तेषां मत्यादीनामभावः प्रोच्यते.? भाष्यकारोऽप्याहुः-'आवरणदेसविगमे, जाई विजंति मइसुयाणि । आवरण सबविगमे कह ताइ न हुँति जीवस्स' ?॥२॥ इति । उच्यते-इह यथा सहस्रभानोरतिसमुन्नतघनाघनपटलान्तरितस्याऽपान्तरालाऽवस्थितकटकुड्याद्यावरणविवरप्रविष्टप्रकाशो घटपटादीनि प्रकाशयति, तथा केवलज्ञानावरणावृतस्य केवलज्ञानस्याऽपान्त
105६ysz90s-
॥ ५७॥