________________
Z55-55-55<
ऽऽत्मके वस्तुनि विशेषग्रहणाऽऽत्मको बोध इत्यर्थः । मननं मतिः परिच्छेदः, ज्ञप्तिर्ज्ञानं वस्तुस्वरूपावधारणम् , ततो ज्ञानशब्दो सामान्यज्ञानवाचकः सन् इन्द्रियानिन्द्रियनिमित्तोपजातया मत्या सामानाधिकरणतया विशिष्यते, मतिश्च सा ज्ञानं मतिज्ञानम् , इन्द्रियमनोनिमित्तो योग्यदेशाऽवस्थितवस्तुविषयः स्फुटप्रतिभासरूपो बोधविशेष इत्यर्थः। तच्च श्रोत्रेन्द्रियव्यतिरिक्तं चक्षुरादीन्द्रियाऽनक्षरोपलब्धिर्या तन्मतिज्ञानम् ।। श्रूयते तदिति श्रुतमित्यस्मिन् पक्षे शब्दमात्रं गृह्यते, तच्चाऽनिष्टं, चक्षुरादिभ्योऽपि श्रुतज्ञानस्योपजायमानत्वात् , श्रवणं श्रुतिः इत्यस्मिन् पक्षे ज्ञानविशेष उच्यते, स एव च ग्राह्यः श्रुतमित्यनेन, कीदृशः स श्रुतविशेष इति चेदुच्यते-शब्दमाकर्णयतो भाषमाणस्य, पुस्तकादिन्यस्तं वा चक्षुषा पश्यतः, घाणस्पर्शनादिभिर्वा अक्षराण्युपलभमानस्य यद्विज्ञानं तत् श्रुतमुच्यते, श्रुतं च तद् ज्ञानं श्रुतज्ञानम् , अभिलापप्लावितार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकार वस्तु घटशब्दाभिलाप्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः ।। अवशब्दोऽधः शब्दार्थोऽवधानादवधिः ज्ञानं परिच्छेदः, एतदुक्तं भवति, अधोविस्तृतविषयमनुत्तरोपपातिकादीनां ज्ञानमवधिज्ञानं, यतो बहुत्त्वं च विषयस्योररीकृत्यैवं व्युत्पत्तिः, अन्यथातिर्यगूज़ वा परिच्छिन्दानस्यावधिव्यपदेशो न स्यात् , अथवा अवधिर्मर्यादा, अमूर्त्तद्रव्यपरिहारेण मूर्त्तद्रव्यनिबन्धनत्वादेव तस्यावधिज्ञानवम् , तच्च चतसृष्वपि गतिषु वर्तमानानां जन्तूनामिन्द्रियनिरपेक्ष मनःप्रणिधानवीर्यकं प्रतिविशिष्टक्षयोपशमनिमित्तं पुद्गलपरिच्छेदि देवमनुजतिर्यङ्नारकलक्षणे गतिचतुष्केपि जायमानमवधिज्ञानमिति, अवधिश्च तज्ज्ञानश्चेत्यवधिज्ञानम् ।। अथ चतुर्थ मनःपर्याय(पर्यव)ज्ञानं, परिः सवतोभावे, अवनमवः , मनसि मनसो वा पर्यवः सर्वतस्तत्परिच्छेद इत्यर्थः,
>卐卐卐>y33c卐wi
>