________________
Z
<>
है ॥ अथ चतुर्थं पापतत्त्वम् ॥
<-5296E>
अङ्गोपाङ्गमयं जिनागमवरं येऽध्यापयन्तो मुदा, सिद्धान्तोदधिपारगाश्च समुपास्यन्ते विनेयैस्सदा ॥ मोक्षावाप्तिसुलक्षणोक्तिपटवो विज्ञानसत्संपदा-माधारा विजयन्तु पाठकवरा भव्यौघनन्दप्रदाः॥१॥
द्विचत्वारिंशद्भेदाऽऽत्मकं पुन्यतत्त्वं व्याख्याय क्रमाऽऽयातं व्यशीतिभेदाऽऽत्मकं पापतत्त्वं ब्याचिख्यासुः सूत्रकारो गाथाऽऽत्मकं सूत्रं सूत्रयतिनाणंतरायदसगं, नवबीए नीअसायमिच्छत्तं।थावरदसनरयतिगं, कसायपणवीसतिरियदुर्ग ॥१८॥
_ व्याख्या-'नाणंतरायं' इत्यादि ज्ञानावरणपश्चकं, अंतरायपञ्चकं चोभयमिलने दश, द्वितीयस्य दर्शनावरणीयस्य निद्रादिभेदयुता नवप्रकाराः, नीचैगोत्रम्, अशातावेदनीयं, मिथ्यात्वं, नामकान्तर्वतिस्थावरदशकं, नरकगति-नरकायु-नरकानुपूर्वीरूपं नरकत्रिकं, अनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यान-सञ्ज्वलनभेदात्मका हास्यषट्क-वेदत्रिकोपेता कषायस्य पञ्च
1055555574095
<