________________
श्रीनवतत्त्व -
सुमङ्गलाटीकायां
॥ ५५ ॥
N55
A
5
A
T
A
T
V
A
विंशतिप्रकारा मोहनीयकर्म्मगताः, तिर्यग्गति - तिर्यगानुपूर्वीरूपं तिर्यग्द्विकं चेत्येते द्विषष्टिभेदाः विशेषतोऽग्रे व्याख्यास्यमानाः दुःखानुभवहेतुत्वात् पापप्रकृतित्वेन गण्यन्त इति गाथाक्षरार्थः ॥
रिण्या
भावाऽर्थस्त्वयम् ; —पाशयति गुण्डयत्यात्मानं पातयति चात्मन आनन्दरसं शोषयति क्षपयतीति वा पापम् । अस्मिन् संसारे संसारोदरवर्त्तिनां जन्तूनां समयप्रमाणोऽपि कालो एतादृङ्नास्ति यस्मिन् समयेऽयं जीवः कर्म्मबन्धं न विदध्यात् । " जाव एस जीवे एयइ वेयर चलइ फंदर घट्टइ निप्फंदइ तं तं भावं परिणमई ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छविहबंधए वा एगविहबंधए वा नो णं अबंधए " इत्यागमः । ततः प्रतिसमयं पारम्पर्येण मोक्षमार्गकारणैश्शुभाध्यवसायै जीवेन पुन्यं बध्यते, संसारवृद्धिनिमित्तकैस्संक्लेशजनितैरशुभाऽध्यवसायैश्च प्राणिनः पापं संचिन्वन्ति । विगतरागद्वेषसर्वज्ञपुरुषप्रणीतप्रवचनानुसा'दृष्ट्वा सामान्यतः शुभमनोवाक्काययोगभाजो जन्तवो यद्यपि आह्लादप्रदं शुभं कर्म्म अर्जयन्ति, तथापि पुन्यतत्त्वविवरणप्रसङ्गे पात्रदानादयो हेतवः सविशेषतो यथा प्रतिपादितास्तद्वद् दुष्टमनोवाक्काययोगेषु अशुभकर्म्मबन्धननिबन्धनभूतेषु सत्स्वपि विशेषपापबन्धहेतवो नामग्राहं प्रदर्श्यन्तेः प्राणातिपातः १, मृषावादः २, अदत्तादानं ३, मैथुनं ४, परिग्रहः ५, अप्रशस्तक्रोधः ६, अप्रशस्तमानं ७, अप्रशस्ता माया ८, अप्रशस्तलोभः ९, अप्रशस्तरागः १०, अप्रशस्तद्वेषः ११, अप्रशस्तक्लेशः १२, अभ्याख्यानम् १३, पैशुन्यम् १४, रत्यरती १५, परपरिवादः १६, मायामृषावादः १७, मिध्यात्वशल्यम् १८ इति । तथा चोक्तं श्रीव्याख्याप्रज्ञप्तौ; कहन्नं भंते ! जीवा गरुयत्तं हवमागच्छंति ? गोयमा ! पाणाइवाएणं, मुसावाएणं, जाव मिच्छादंसण सल्लेणं, एवं खलु गोयमा ! जीवा गरुयत्तं हवमागच्छंति । कहनं भंते ? जीवा लहुयत्तं हवमागच्छंति ? गोयमा ! पाणाइवायवेर
S
555<5Z505<5_5<
U
M
A
L
पापतचे
पापबन्ध
हेतवः ॥
॥ ५५ ॥