SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्व सुमङ्गला टीकायां ॥ ५६ ॥ तस्य विघ्नकरपित्रादीनां पुरः कुस्वनो मया दृष्टोऽल्पाऽऽयुष्कसूचक इत्यादिका स्वपरहितहेतुः स्वपितुः सम्यग् यत्याचारग्रहणार्थं श्री आर्यरक्षितप्रयुक्तमायेव, यतः - ' अमाय्येव हि भावेन माय्येव नु भवेत् क्वचित् । पश्येत् स्वपरयोर्यत्र सानुबन्धं हितोदयम् ' ।। १ ।। अप्रशस्तो लोभो धनधान्यादौ मूर्च्छा यतः - ' वंचइ मित्तकलत्तं, नाविक्खइ पिअरमाइसयणे अ । मारेइ isarg पुरसो होइ घणो || १ || प्रशस्तच ज्ञानदर्शनचारित्रविनयवैयावृत्यशिष्यसंग्रहादौ नानाश्रुतार्थ संग्राहकोॐ मास्वातिवाचकवत्, एवं योगेष्वपि अप्रशस्तं मन आर्त्तरौद्रध्यानयोः, प्रशस्तं तु धर्म्मशुक्लध्यानयोः, वागप्रशस्ता चौरोऽयम्, जारोऽयमित्यादि पापमयी, प्रशस्ता तु धर्म्ममयी देवगुरुवर्णनादौ, कायोऽप्रशस्तो विषयद्युताद्यासेवाहेवाकः, प्रशस्तस्तु धर्मकृत्योद्युक्तः " । इत्येवं कपाययोगादीनां शस्ताऽशस्तत्त्वे जिनागमानुसारेण सम्यविचारणीये शेमुषीवद्भिः । यद्यपि मोक्षT मार्गेकचित्तानां भव्यात्मनां शस्ताऽशस्तयोर्द्विविधयोरपि कषाययोगयोस्त्याग एव प्रधानतमः, तथापि तामुच्चकक्षामारुरुक्षूणां पूर्वं तावत् प्रशस्तकपाययोगैरप्रशस्तकपाययोगाः प्रतिक्षणं सावधानीभूय सुतरां वर्जयितव्याः, प्रान्ते च श्रेणिमारुह्य द्वयोरपि उदयाऽभावस्स्वयमेव सञ्जायत इति ॥ A A A फ V अथ पूर्वोक्तैरष्टादशप्रकारैस्समुपार्जितमशुभं कर्म्म येयशीतिप्रकारैजींवेनोपभुज्यते ते प्रकाराः क्रमशः प्रदर्श्यन्ते । 'नाणंतराय ' इत्यादि, तत्र ' एकदेशग्रहणात् समुदायस्यापि ग्रहणम् ' इति न्यायेन ' नाणं ' इत्यादिना पञ्चविधं ज्ञानावरणीयंज्ञेयम् । यावत् पञ्चविधज्ञानस्य स्वरूपं न विज्ञायते तावत् पञ्चप्रकारकज्ञानावरणीयस्याऽशुभकर्म्मणोऽपि स्वरूपं सम्यग्ज्ञातुं न पार्यते, ततः पूर्वं तावल्लेशतो ज्ञानस्वरूपमालिख्यते ; - ज्ञायते वस्तुपरिछिद्यतेऽनेन विशिष्टतयेति ज्ञानम्, सामान्यविशेषा 品 T फ्र USMAN5L5A ( पापतवे पापबन्धहेतवः ॥ ॥ ५६ ॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy