SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्वसुमङ्गलाटीकायां॥५४॥ पुन्यतत्त्वस्योपसंहारः॥ 卐 क卐> 卐5--> नाम-प्रत्येकनाम-स्थिरनाम-शुभनाम-चेत्येतानि शुभकर्माणि उदयापेक्षया वर्तन्त इति सर्वविदां सिद्धान्ते प्रोक्तम् । तिर्यग्गतौ तु मनुष्यत्रिक-देवत्रिका-ऽऽहारद्विक-जिननामसंज्ञकानि नवसंख्याकानि वर्जयित्वा शेषाणि त्रयस्त्रिंशत् तत्र विद्यन्ते ।। देवत्रिकतिर्यगायुरातपाऽऽख्यानि पञ्च वर्जयित्वा सप्तत्रिंशन्मनुजगत्यामुदयेन विद्यन्ते । मनुजत्रिकतिर्यगायुरौदारिकद्विकाऽऽतपाऽऽहारकद्विकजिननामविकलानि द्वात्रिंशत्शुभकर्माणि देवैरनुभूयन्ते देवगतौ ।। इन्द्रियमार्गणायां पुनरेकेन्द्रियजातौ सातवेदनीयौदारिकाङ्ग-तैजस-कार्मण-बैक्रियाङ्ग-वर्णादिचतुष्काऽगुरुलघु-पराघातोच्छ्वासाऽऽतपोद्योत-निर्माण-बादर-प्रत्येकस्थिर-शुभ-यश कीर्तितिर्यगायुस्स्वरूपाणि द्वाविंशतिसंख्याकानि पुन्यकर्माणि वर्त्तन्ते । सातवेदनीयौदारिकद्विक-तैजसकार्मण-वर्णादिचतुष्काऽगुरुलघु-पराघातोच्छ्वासोद्योत- निर्माण-तिर्यगायुस्त्रस-बादर-पर्याप्त प्रत्येक-स्थिर-शुभ-यश-कीर्तिरूपा द्वाविंशतिशुभप्रकतयो वीन्द्रियजातौ जीवैरनुभूयन्ते । त्रीन्द्रिय-चतुरन्द्रियजातावप्येवमेव ज्ञातव्यम् । आतपं विहायैकचवारिंशत् पञ्चेन्द्रियजातौ ज्ञेयम् । एवं काययोगादिमार्गणास्वपि स्वयमेवोह्यम् ॥ इति पुन्यतत्त्वम् ।। पुन्याख्यतत्त्वव्याख्यानादधिगतश्च यन्मया पुन्यम् ॥ पुन्यानुबन्धिपुन्यार्जनपरायणो भवतु भव्याघः॥१॥ इत्याराध्यपादाऽऽचार्यवर्यश्रीमद्विजयमोहनसूरीश्वरविनेयावतंसोपाध्यायपदालङ्कतश्रीमत्प्रतापविजयगणिचरणाजचञ्चरीकप्रवर्तक श्रीधर्मविजयाविरचितायां श्रीनवतत्त्वप्रकरणस्य सुमङ्गलाटीकायां तृतीयं पुन्यतत्त्वं समाप्तम् ॥ १-आहारकद्विकस्योदयस्तु चतुर्दशपूर्वविदां संयतमनुजानामेव नान्येषाम् ।। २-आतपस्योदयस्तु बादरपर्याप्तपृथिवीकायिकेष्वेव नान्यत्रेति।। )<sz909 -) ॥ ५४॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy