________________
यतःप्रगृह्यमाणा मत्कुणादयो प्रधावन्ति, नारकास्तु प्रतिक्षणमेतदेवेहन्ते कदा वयं (क्षेत्रजनित-परस्परोदीरित-संक्लिष्टासुरोदीरितत्रिविध ) दुःखतापान् मोक्ष्यामहे, कदाऽस्माकं मरणं समायायात् येन गत्यन्तरं गत्वा सुखभाजो भवामः ॥ ननु यथा देवमनुजायुयां सह देवमनुजगती देवमनुजानुपूव्यौं च पुन्यप्रकृतावन्तर्गण्येते, तथा तिर्यगायुषा सह तिर्यग्गतिस्तिर्यगानुपूर्वी च पुन्यप्रकृतिमध्ये कथं न पठ्यते ? उच्यते-यानि कर्माणि विशुद्धाऽध्यवसायैर्बध्यन्ते शुभविपाकत्वेनाऽनुभूयन्ते च तान्येव पुन्यकर्माणि, यानि च संक्लिष्टाऽध्यवसायैरात्मसात्क्रियन्तेऽनुभूयन्ते चाऽशुभविपाकत्वेन तान्यशुभानीति प्रवदन्ति प्रवचनोपनिषद्वेदिनः। यदुक्तं शतके-“बायालंपि पसन्था विसोहिपुणमुक्कडस्स जीवस्स । बासीइमप्पसस्थाइत्थुक्कडसंकिलिस्स ॥१॥ ४१ ॥ यदुदयादष्टमहाप्रातिहार्याद्यतिशयाः प्रादुर्भवन्ति तत्तीर्थकरनाम ॥ ४२ ॥ १६ ॥ तसबायरपज्जत्तं पत्तेयथिरं सुभं च सुभगं च ॥ सुस्सर आइज्जजसं, तसाइदसगं इमं होइ ॥१७॥
टीका; व्याख्यातार्था ॥१७॥ इत्येवं समासतः पुन्यतत्त्वस्य द्विचत्वारिंशद् भेदाः समाख्याताः, तेषां मध्ये नारकादिषु चतसृषु गतिषु कस्यां गतौ के मेदास्सन्ति तान् पृथक्कृल्याहा-नरकगतौ तावत् सातवेदनीयं-पश्चेन्द्रियजातिः-वैक्रियद्विकंतैजसनाम-कार्मणनाम-वर्णादिचतुष्कं अगुरुलघुनाम-पराघातनाम-उच्छ्वासनाम-निर्माणनाम-वसनाम-बादरनाम-पर्याप्त१-अशोकवृक्षः सुरपुष्पवृष्टिर्द्विव्यध्वनिश्चामरमासनश्च । भामण्डलं दुंदुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ १॥
२-जिनेश्वराणां जन्मदीक्षाकल्याणकादौ नरकगत्यामपि क्षणं सातवेदनीयस्यानुभवः सञ्जायते ।। Iuell -यद्यपि नारकाणां प्रायोऽशुभवर्णचतुष्कं उदयवद्विद्यते स्थूलदृष्ट्या, सूक्ष्मदृष्ट्या त्वल्पांशेन शुभवर्णादिचतुष्कस्याऽपि सद्भावोऽस्ति ।
''>卐卐-9卐->)
卐yyyyy