________________
श्रीनवतत्त्वसुमङ्गलाटीकायां॥५३॥
पुन्यतचभेदप्रतिपादनम् ॥
zy>55-55-5>
मिश्रितसकलसर्षपवर्तिकावत् प्रबलरागद्वेषोपचितविचित्रप्रत्येकनामकर्मपुद्गलोदयात्तेषां परस्परविमिश्रशरीरसंभवः ॥ ३२॥ | यदुदयाच्छिरोऽस्थिदन्तादीनां शरीरावयवानां स्थिरता स्यात् तत्स्थिरनाम ॥ ३३ ॥ यदुदयानाभेरुपरितना अवयवाः शोभना जायन्ते तच्छुमनाम ॥ ३४ ॥ यदुदयादनुपकृदपि सर्वस्य मनःप्रियो भवति तत् सौभाग्यनाम ॥३५॥ यदुदयाजीवस्वरः श्रोतृप्रीतिहेतुर्भवति तत्सुस्वरनाम ।। ३६॥ यदुदयाल्लोको यत्तदपि वचनं प्रमाणीकरोति, दर्शनसमनन्तरमेव चाऽभ्युस्थानाद्याचरति तदादेयनाम ॥ ३७॥ तपःशौर्यत्यागादिना समुपार्जितेन यशसा कीर्तनं यशःकीर्तिः, यद्वा यशः सामान्येन ख्यातिः, कीर्तिगुणोत्कीर्तनरूपा प्रशंसा, अथवा " एकदिग्गामिनी कीर्तिः सर्वदिग्गामुकं यशः, दानपुन्यभवाकीर्तिः पराक्र मकृतं यशः" ॥१॥ ते यश-कीर्ती यदुदयाद् भवतस्तद्यशःकीर्तिर्नाम ॥ ३८ ॥ इति त्रसदशकम् ॥
यदुदयादेवभवनिवासहेतुकमायुः प्राप्यते तद्देवायुः ॥ ३९ ॥ यदुदयान्मनुजभवनिवासहेतुकमायुरवाप्यते तन्मनुष्यायुः ॥४०॥ यदुदयात्तिर्यक्त्वपर्यायकारणमायुलभ्यते तत्तिर्यश्चायुः॥४१॥ एतानि त्रीण्यप्यायूंषि शुभानि शुभविपाकप्रदायकस्वात्तेषां, ननु युक्तमुक्तं देवमनुजायुपी पुन्यसंज्ञके शुभाबादजनकत्वात् पौद्गलिकसुखप्रधानत्वात् पुन्यकारणचाद्वा तयोः, परं तिर्यगायुः कथं शुभं? तत्तु क्षुत्पिपासासहनताडनतर्जनछेदनभेदनप्रभृतिदुःखबहुलवादशुभं प्रत्यक्षमेव पश्यामो वयम् अन्यत्र कचित् कदाचित् कथञ्चित् पार्थिवपरायत्तानां हस्त्यश्वराजहंसशुकपिकादीनाम् , उच्यते-यद्यपि तिर्यश्चस्तियेगायुभोजोऽनेकविधदुःखानि पराधीनास्सन्तो नितरां सहन्ते जन्मान्तरेऽविचारितकर्मविपाकास्सहसाकृतकणिस्तथापि न तेषामायुरशुभमुच्यते, यतो दुःखमनुभवन्तोऽपि ते स्वायुषस्समाप्तिपर्यन्तं जिजिवीषवो न कदाचनाऽपि मृत्युं समीहन्ते नारकवद्, प्रत्यक्षमेतद्
3-992Ez卐09卐-)
॥ ५३॥