________________
-卐卐-卐卐<y卐z
षेधात् , तत्रोष्णवमुष्णस्पर्शोदयात् प्रकाशवमुत्कटलोहितनामोदयाच्चेष्यते ॥२५॥ यदुदयाजन्तुगात्राणि अनुष्णप्रकाशरूपमुद्योतं कुर्वन्ति यथा यतिदेवोत्तरवैक्रियचन्द्रग्रहनक्षत्रताराविमानरत्नौषधयस्तदुद्योतनाम ॥ २६ ॥'सुभखगइ' ति गमनं गतिः, खे विहायसा गतिः खगतिः, शुभा चासौ शुभखगतिः, नारकादिगतिव्युदासाय खेति विशेषणम् , खरोष्ट्रवर्ति अशुभगतित्वं वारणाय शुभेति पदं, यदुदयाद् हंसगजवृषभादीनामिव प्रशस्ता गतिर्भवति तत् शुभखगतिनामकर्म, तच्च शुभं सुविपाकरूपत्वात् ॥२७॥ 'निमिण 'त्ति, यदुदयाजन्तुशरीरेष्वङ्गप्रत्यङ्गानां प्रतिनियतस्थानवतिता भवति तन्निर्माणनाम सूत्रधारकल्पं, तदभावे हि तद्भृतककल्पैरङ्गोपाङ्गनामादिभिर्नितितानामपि शिरउरादीनां स्थानप्रवृत्तेरनियमस्स्यात् ॥ २८ ॥ " तसदस" त्ति, गाथायां त्वग्रे वक्ष्यमाणमपि त्रसदशकं प्रसङ्गादत्रैव विवियते, तच्चैवम् :-"तस बायरपज्जत्तं पत्तेयथिरं सुभं च सुभगं च ॥सुस्सर आइज्जजसं तसाइदसगं इमं होइ" ॥१॥ तत्र त्रसन्ति उष्णाद्यभितप्ताः स्थानात् स्थानाऽन्तरं गच्छन्तीति त्रसाः, परिस्पष्टुसुखदुःखेच्छाप्रद्वेषादिलिङ्गात्रसनामकर्मोदयात्रसाः, तद्विपाकवेद्या कर्मप्रकृतिरपि त्रसनाम ।।२९।। यदुदयाजीवानां चक्षुर्ग्राह्यशरीरत्वलक्षणं चादरत्त्वं भवति तद्वादरनाम, बादरपृथिव्यादेरेकैकशरीरस्य चक्षुर्ग्राह्यत्त्वाऽभावेऽपि बादरवपरिणामविशेषाद् बहूनां समुदाये चक्षुषा ग्रहणं भवति ।। ३० ॥ यदुदयात् स्वयोग्यपर्याप्तिनिवर्तनसमर्थो भवति तत्पर्याप्तनाम ॥ ३१ ॥ यदुदयात्प्रतिजीवं भिन्नशरीरमुपजायते तत् प्रत्येकनाम, ननु कपिथाऽश्वत्थपीलुप्रभृतीनां मूलस्कन्धत्त्वक्शाखादयः प्रत्येकमसंख्येयजीवात्मकाः प्रवचने प्रोच्यन्ते, मूलादयश्च देवदत्तशरीरवद् अखण्डकशरीरा उपलभ्यन्त इति तत्कथं तेषां प्रत्येकशरीरत्वम् ? प्रति जीवं शरीरभेदाऽभावादिति चेन्मैवं मंस्थाः, तन्मूलादिष्वसंख्येयानामपि जीवानां पृथक् पृथक् शरीराऽभ्युपगमात्, केवलं श्लेषद्रव्य
60y卐gyzs0))
卐>ye