SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ zss>55-55-><! संघातितवद्धष्वौदारिकादिपुद्गलेषु यदुदयाद् भवति तत्संस्थाननाम, तच्च पोढा, समचतुरस्रं, न्यग्रोधपरिमण्डलं, सादि, वामनं कुब्ज हुण्डं चेति, तत्र समचतुरस्रमेकमेव शुभविपाकजनकत्त्वाच्छुभ, अन्येषां त्वशुभविपाकजनकत्वादशुभत्वमिति । समाः सामुद्रिकशास्त्रोक्तप्रमाणलक्षणाऽविसंवादिन्यश्चतस्रोऽस्रयश्चतुर्दिग्भागोपलक्षिताः शरीराऽवयवा यस्य तत् समचतुरस्त्रम् । येन नामकर्मणा एतादृक् समचतुरस्रसंस्थानं सञ्जायते तत् समचतुरस्रसंस्थाननामकर्म अथवा ये जीवा-आत्माङ्गुलगणनयाऽष्टोत्तरशताऽङ्गुलप्रमितास्तेऽपि समचतुरस्रसंस्थानीयाः। सुरनरपतिनताऽङ्गयस्तीर्थप्रवर्तकतीर्थकराः समे देवाश्चैतत्संस्थानभाजस्स्युः, शेषजीवाऽपेक्षयैतत्संस्थानं भाज्यम् ॥१७॥१५॥ वन्नचउक्कागुरुलहु-परघा उस्सास आयवुज्जोयं । सुभखगइ निमिण तसदस, सुरनरतिरिआउतित्थयरं ॥ १६ ॥ टीका;-प्राक्तनगाथायां पुन्यतत्त्वस्य सप्तदशप्रकृतीःसंख्यायाऽथाऽनया गाथयाऽवशिष्टाः काश्चिद् व्याख्यायन्ते । तत्रादौ वर्णचतुष्कं वर्णगन्धरसस्पर्शाऽऽत्मकं ब्रूते, यद्यपि वर्णचतुष्कं नामकर्मण उत्तरप्रकृतिभूतं शुभाशुभलक्षणं चतुर्द्विपञ्चाष्टमेदात्मकं क्रमशः कर्मग्रन्थादौ व्याख्यातं, तथाऽप्यस्मिन्प्रकरणे पुन्यपापतत्त्वयोरुभयत्रापि अविवक्षितोत्तरभेदं तदेव वर्णचतुष्कमुक्तं तत्र ग्रन्थकर्तुर्विवक्षैव-कारणम् । नन्वेकस्य वर्णचतुष्कस्य पुन्यपापयोरुभयत्र कथं विन्यास इति चेत्शुभाऽशुभत्त्वाऽपेक्षया विज्ञेयमिति । वर्णनामकर्माऽपि पञ्चधा, तत्र श्वेतरक्तपीतलक्षणास्त्रयो वर्णाः शुभाः, नीलकृष्णौ द्वौ चाऽशुभौ । 'बस्त गन्ध अर्दने'
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy