________________
ZE
पुन्यतत्त्वे पुन्यमेद
श्रीनवतत्त्वसुमङ्गलाटीकायां॥५१॥
'>
प्रति|पादनम् ॥
<卐-
पेतान्येवाऽन्यत्र एकेन्द्रियशरीराणि, ननु एकेन्द्रियाऽन्तर्गत वनस्पतिकायिकतरुप्रभृतिषु शाखा-प्रशाखा-पुष्प-फल-पत्रकिसलयादीनामवयवत्वेन सुविख्यातानां सद्भावात् कथमुच्यते अन्यत्रैकेन्द्रियशरीराण्यङ्गोपाङ्गानि ? सत्यम् , यद्यपि लोके ते शाखाप्रशाखादयोऽवयवत्त्वेन व्यवड़ियन्ते, परं तन्न समीचीनम् । यतस्तेषु तेषु शाखाप्रशाखासुमनोदलेषु प्रतिशाख प्रतिप्रशाख प्रतिपुष्पं प्रतिपत्रं च भिन्नो जीवः, न तु ते विवक्षितवृक्षजीवस्याऽवयवीभूताः, अत एकेन्द्रियेष्वौदारिकनामकर्मसद्भावे सत्यपि अङ्गोपाङ्गनामकर्मणोऽभावाद् अवयवीभूतानामङ्गोपाङ्गानामसम्भवः सुसाध्यः । एकेन्द्रियव्यतिरिक्तेषु शेषेषु भवस्थजीवेषु औदारिकवैक्रियनामकर्मप्रभृतिकर्मसद्भावेऽपि यद्यङ्गोपाङ्गनामकर्म न भवेत्तदा तु तेषामपि संसरणशीलानां संसारिजीवानामेकेन्द्रियजीववदङ्गोपाङ्गाऽभावः स्यादिति, प्रत्यक्षाश्चाऽवयवा मनुष्यप्रभृतिषु दरीदृश्यन्त इत्यलमतिचर्चया ।। अथ षोडशं वर्षभनाराचाऽऽख्यं शुभं कर्म विवियते, तत्र संहननं नामाऽस्थिरचनाविशेषः, तच्च-वर्षभनाराच-ऋषभनाराच-नाराचा-ऽर्धनाराच-कीलिका-सेवार्त्तभेदैः पोढा, मध्येसंहननषदकं प्रथममेव शुभं शेषाण्यशुभानि, पुन्यतत्त्वव्याख्याप्रसङ्गात् प्रथम वर्षभनाराचमेवात्र व्यावर्ण्यते-अस्मिन् 'वर्षभनाराच' इति पदे त्रयः शब्दाः, वजूं ऋषभो नाराचश्च, | तत्र वर्जू कीलिका, ऋषभः परिवेष्टनपट्टः, नाराचमुभयतो मर्कटबन्धः । एतानि कीलिकापरिवेष्टनपट्टनाराचाऽऽख्यानि त्रीण्यपि रचनाविशेषाणि यस्मिन्नस्थ्नि समुदितानि सन्ति, सास्थिरचना वर्षभनाराचाऽऽख्या कथ्यते, ततश्च द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनाऽस्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकारूपवजूनामकमस्थि यत्र भवति तद् वर्षभनाराचसंजमायं संहननम् ॥ १६ ॥ अथ सप्तदशं समचतुरस्रसंस्थानं, तत्र संस्थानमाकारविशेषः संगृहीत
05.<sz095
-
>
॥५१॥