________________
52ss>卐
-
कार्मणवर्गणान्तःपातिपुद्गलस्कंधानादाय कार्मणशरीरतया परिणमयति परिणमय्य चाऽऽत्मप्रदेशैः सहाऽन्योऽन्याऽनुगमात्मकमभिन्न सम्बन्धं विदधाति तत् कार्मणशरीरनाम ॥१२॥एतानि प्राङ् निर्दिष्टानि पञ्च शरीरनामकर्माणि पुन्यसंज्ञकानि, किञ्च तत्तच्छरीरनामकर्मजन्य औदयिकभावफलस्वरूपं औदारिकादिशरीरमपि पुन्यसंज्ञकं भवति, पुन्यसंज्ञककर्मणः कार्यत्वात् ॥ ननु औदारिकादिनामकर्मचतुष्कस्य भवतु पुन्यसंज्ञा शुभविपाकजनकत्त्यात्तेषां, परं कार्मणशरीरनाम काऽपि पुन्यसञ्जकं कथं प्रतिपाद्यते, यत एतत्तु भवभ्रमणस्य प्रधानं निमित्तं ? उच्यते-सत्यं ! सर्वाणि पौद्गलिकसुखानि दुःखानि वा कार्मणशरीरनामकर्मप्रभवाणि, एवं सत्यपि यदत्र कार्मणशरीरनामकर्म पुन्यसंज्ञकत्वेन प्रोचुः प्रावचनिकास्तत्र पौद्गलिकसुखेषु कार्मणशरीरस्य प्राधान्यं विवक्षितं, नास्त्यन्या काऽप्युपपत्तिः। अङ्गान्यष्टौ शिरःप्रभृतीनि, उक्तश्च;-"सीसमुरोयरपिट्टि दो बाहू ऊरुया य अटुंगा" । तदवयवभूतान्यङ्गुलादीनि चोपाङ्गानि, शेषाणि तु तत्प्रत्यवयवभूतान्यङ्गुलिपर्वरेखादीनि अङ्गोपाङ्गानि । ततोऽङ्गानि चोपाङ्गानि चाङ्गोपाङ्गानि, अङ्गोपाङ्गानि चाऽङ्गोपाङ्गानि चाङ्गोपाङ्गानि, (सरूपाणामेकशेष एकविभक्तौ १-२-६४-पा० ) इत्येकशेषः । तन्निमित्तं काऽङ्गोपाङ्गं, तत्रिधा-औदारिकाङ्गोपाङ्गं, वैक्रियाङ्गोपाङ्गं, आहारकाङ्गोपाङ्गं तत्र यदुदयादौदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तदौदारिकाङ्गोपाङ्गनाम । यदुदयाद्वैक्रियशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणाम उपजायते तदौदारिकाङ्गोपाङ्गनाम । यदुदयादाहारकशरीरत्वेन निष्पन्नानां पुद्गलानामङ्गोपाङ्गविभागपरिणाम उपजायत इति आहारकाङ्गोपाङ्गनाम । तैजसकार्मणवपुपोस्तु आत्मप्रदेशतुल्यसंस्थानत्त्वात्तयो स्त्यङ्गोपाङ्गसम्भवः । अत्र तनुपञ्चकमध्ये यानि औदारिकवैक्रियाऽऽहारकाणि त्रीणि वपूंषि तान्यङ्गोपाङ्गो
z卐095
-
>