________________
iz5
श्रीनवतत्त्व सुमङ्गलाटीकायां॥५०॥
)>卐
पुन्यतत्त्वे पुन्यमेद
प्रतिपादनम्॥
- 卐
गतिनामकर्मणा तथाप्रकारककर्मसचिवैर्जीवैर्देवगतित्त्वं लभ्यते सा देवगतिः ॥ ५ ॥ येन चाऽऽनुपूर्वीनामकर्मणा सुरगतिबद्धायुर्जीवोऽन्यत्र गच्छन् सुरगतावानीयते सा सुराऽऽनुपूर्वी ॥६॥ एकेन्द्रिय-द्वीन्द्रियादीनां एकेन्द्रियद्वीन्द्रियशब्दप्रवृत्तिनिबन्धनं तथाविधसमानपरिणतिलक्षणं सामान्य जातिः, तद्विपाकोदयवेद्या कर्मप्रकृतिरपि जातिः, अयमत्र पूर्वाचार्याणामाशयःद्रव्यरूपमिन्द्रियमङ्गोपाङ्गनामकर्मणा इन्द्रियपर्याप्तिजनकपर्याप्तनामकर्मणा च सिद्धम् , भावरूपं ( भावेन्द्रियं ) तु स्पर्शनादीन्द्रियाऽऽवरणक्षयोपशमसामर्थ्यात् सिद्धम् "क्षायोपशमिकानीन्द्रियाणि" इति वचनात् , यत्पुनरेकेन्द्रियादिशब्दप्रवृत्तिनिमित्तं सामान्यं तदन्याऽसाध्यचाजातिनामनिबन्धनमिति । ततो यया जातिनामकर्मप्रकृत्या जीवस्य पञ्चेन्द्रियचं स्यात् सा पञ्चेन्द्रियजातिः॥७॥अथाऽष्टममौदारिकशरीरनामकर्म, तत्र शीर्यते इति शरीरम् , तीर्थकरत्वादिलाभाऽपेक्षया उदारैः पुद्गलनिष्पन्नमौदारिक, औदारिकश्च तच्छरीरमौदारिकशरीरम, यद्दयादौदारिकशरीरयोग्यान पुद्गलानादायौदारिकशरीरतया परिणमयति परिणमय्य च जीवप्रदेशैः सहाऽन्योऽन्यानुगमरूपतया सम्बन्धयति तदौदारिकशरीरनाम ॥८॥ विक्रियया निष्पन्नं वैक्रिय, वैक्रियश्च तच्छरीरं वैक्रियशरीरं, यदुदयाद्वैक्रियशरीरयोग्यान वैक्रियवर्गणागतपुद्गलानादाय वैक्रियशरीरत्वेन परिणमयति, परिणमय्य चाऽऽत्मप्रदेशैः सहाऽन्योऽन्यानुगमस्वरूपेण सम्बन्धयति तद्वैक्रियशरीरनामकर्म ।। ९॥ यदुदयादाहारकशरीरयोग्यान् आहारकवर्गणागतपुद्गलानादाय आहारकशरीरतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहाऽन्योऽन्यानुगमरूपतया सम्बन्धयति तदाहारकशरीरनामकर्म ॥१०॥ यदुदयात्तैजसशरीरयोग्यान तैजसवर्गणागतपुद्गलानादाय तेजसशरीरतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहाऽन्योऽनुगमात्मकमभेदं सम्बन्धं करोति तत्तैजसशरीरनामकर्म ॥११॥ यदुदयात्कार्मणशरीरयोग्यान्
04३sz90卐)-)
>y
॥५०॥