SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ zss>55-55-5>se जिनधर्मविमुखेभ्योऽपि यथाशक्ति अशनादिकं प्रदातव्यं, एवञ्च स्वकीयदानगुणस्योपबृंहणा धर्मस्य प्रभावना च संजायेत । पारगतविशुद्धधर्मस्य महिमानं दृष्ट्वा केचित्तं धर्ममपि प्रपद्येरन् । तथा च भगवन्तस्तीर्थकरा अपि त्रिभुवनैकनाथा प्रविबजिषवः सांवत्सरिकमनुकम्पया प्रयच्छन्त्येव दानम् , उक्तश्च–“सव्वेहि पि जिणेहिं दुजयजियरागदोसमोहेहिं । सत्ताणुकंपणहा दाणं न कहिंचि पडिसिद्धम्" ॥१॥ इति । केचिच्च वापीवप्रकूपतटाकादिविधाने सुपात्रदानादिवत् पुन्यवन्धं मन्यन्ते यतस्तेषु तेषु स्थानेषु बहवः प्राणिनस्तृषाकुलास्सन्तस्समागत्य कणेहत्य पयःपानेन गतपिपासास्संजायन्ते सुखश्चानुभवन्ति, तथा केचन क्षेत्रादिषु तेषु तेषु प्रदेशेष्वधिकप्ररोहाऽऽशया दावानलं प्रज्वालयन्ति गवाद्यर्थ च तानि क्षेत्राणि रक्षयन्ति, कैश्चित्तु सत्राऽऽगारमसंयतपोषकं पुन्यबन्धस्याऽऽशंसया निर्मीयते । एतत्सर्वमपि विचाराऽऽस्पदम् , वस्तुतस्त्वेषः पात्राऽपात्रविचार: धर्ममार्गमनापाध्य तय॑ इति । एवं पूर्वोक्तप्रकारेण पुन्यबन्धस्य हेतून् प्रदर्य अधुना यैर्द्विचत्वारिंशत्प्रकारैस्तत् पुन्य कर्म जीवैरनुभूयते ते प्रकाराः क्रमशो लिख्यन्ते तत्र यदुदयादारोग्यविषयोपभोगादिजनितमाह्लादलक्षणं सातं वेद्यते तत् सात वेदनीयम् ॥१॥ यदुदयादुत्तमजातिकुलबलतपोरूपैश्वर्यमुतसत्काराऽभ्युत्थानाऽऽसनप्रदानाञ्जलिप्रग्रहादिसंभवस्तदुच्चैर्गोत्रम् ॥२॥ गम्यते तथाविधकर्मासचिवै वैः प्राप्यत इति गतिः, नारकत्वादिपर्यायपरिणतिः, ततो यया गतिनामकर्मप्रकृत्या मनुजगतित्वं लभते तन्मनुष्यगतिनामकर्म ॥३॥ विग्रहगत्या भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्याऽनुश्रेणिनियता गमनपरिपाटी आनुपूर्वी, ययाऽनुपूर्वीनामकर्मप्रकृत्या मनुजगतिबद्धायुर्जीवोऽन्यत्र गच्छन् मनुष्यगतावानीयते सा मनुजाऽऽनु पूर्वी । तयोर्मनुजगतिमनुजाऽनुपूयोंर्द्विकं मनुजद्विकम् ॥४॥ एवं सुरद्विकं सुरगतिसुराऽऽनुपूर्वीलक्षणं ज्ञेयं तद्यथा-येन 059sz903 -5
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy