SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ z卐g श्रीनवतत्त्वसुमङ्गलाटीकायां॥४९॥ पुन्यतत्वे पुन्यबन्धस्य हेतवः॥ > नव पुन्यबन्धस्य हेतुत्वेनोदाहृतानि, तथा चोक्तं श्रीमत्स्थानाङ्गसूत्रे-"णवविधे-पुण्णे-अभपुग्ने १ पाणपुग्ने २ वस्थपुने ३ लेणपुग्ने ४ सयणषुने ५ मणपुग्ने ६ वतिपुग्ने ७ कायपुग्ने ८ नमोकार पुगे"९॥अन्यैरपि प्रत्यपादि-अन्नं पानं च वस्त्रं च, आलयःशयनासनम् । शुश्रूषा वन्दनं तुष्टिःपुन्यं नवविधं स्मृतम् ॥१॥ अथ पात्राऽपात्रविचारणा विधीयते-तीर्थकरगणधरा मोक्षमार्गानुयायिनो मुनयच सुपात्रत्वेनोक्ताः,देशविरतिवन्तो गृहस्थाः सम्यग्दृष्टयश्च पात्रतया समाख्याताः, दीनमनस्का: करुणायोग्या अङ्गोपाङ्गविहीनाऽपि पात्रत्वेनोदाहियन्ते, शेषाः सर्वे अपात्रत्वेनोच्यन्ते । तत्रापि सुपात्राय धर्मबुद्ध्या प्राशुकमशनादिकं प्रददतो भावुकस्याऽशुभकर्मणो महती निर्जरा महान् पुन्यबन्धश्च । देशविरतसम्यग्दृष्टिश्रावकेभ्योऽन्नादिकं वितरतो मुनिदानाऽपेक्षया अल्पपुन्यबन्धनिजरे च भवतः । अङ्गादिहीनेभ्योऽथवा तथाप्रकारेभ्यो दीनाद्यवस्था प्राप्तेभ्योऽनुकम्पाबुङ्ग्या दानं ददातुर्गृहस्थदानाऽपेक्षयाऽपि अल्पतरपुन्यबन्धो भवति । यद्वा यः कश्चिदपि मम गृहाङ्गणे समायायात् तस्मै यद्यहं न किञ्चिदपि प्रदास्यामि तदा ममाऽऽर्हतधर्मस्य लघुता भाविनीत्ये मनसि निर्धार्य दानं ददाति तदपि अल्पतरपुन्यबन्धहेतुच्वेन जायते । श्वानकपोतप्रभृतिपशुपक्षीणामभयदानेऽन्नादिदाने वा तेषां पात्रत्वाऽभावेऽपि करुणायास्सद्भावादवश्यं पुन्यबन्धः । | तथा गेहं प्रति समागतानां सत्यस्याद्वादमतपराङ्मुखानां बाह्मणकापालिकतापसानां ' इमे अपि धर्मभाज:' यद्वा' एभ्यो वयं दानं वितरिष्यामस्तदा पुन्यबन्धो भावी' इतिधिया दानं न प्रदेयं, परं जिनमतप्रोक्तावितथधम्मेभाजा श्राद्धानां द्वाराण्यभङ्गानि, मम द्वारि समागतो न कश्चिदपि निराशो भूत्वा प्रतिगच्छेत् , यदि सोऽन्नादिकमगृहीत्वैव प्रतिव्रजिष्यति तदा ममावितथजैनेन्द्रधर्मस्य जुगुप्सा भविष्यति, अथवा मम दाक्षिण्यगुणेऽपि न्यूनत्वं स्यादित्यात्मिका बुद्धिं विधाय तेभ्यो ) ) ) ॥४९॥ )
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy