SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 卐zyg><y--卐>卐र परिशाटयन् शिवसुखभाक् च भवति तानि कर्माणि पुन्यसंज्ञकानि, तैः पुन्यसंज्ञककर्मभिर्जीवो यत् शुभं कर्म बनाति तत्क माऽपि पुन्यनाम्ना उच्यते, एवं पुन्यं कारणकार्यभेदाभ्यां क्रियाफलभेदाभ्यां वा द्विविधं, तत्र यैः सुपात्रदानादिभिः कारणैः क्रियाभिर्वा शुभविपाकजनकं पुन्यं कर्म उपार्जयति तत् पुन्यस्य कारणं क्रिया वा प्रोच्यते, यच्च सातोदयादिस्वरूपेणोपभुज्यते जीवैस्तत् पुन्यस्य कार्य फलं वोच्यते । केषाश्चिन्मतेन पापमेवैकं कर्म न तु पुन्यकर्म विद्यते, ते च दार्शनिका एवमाहुः"पापमेवैकमस्ति न पुण्यं, तदेव पापं उत्तमामवस्थामनुप्राप्तं नारकर्भवायाऽलं अपचीयमाणं तु तिर्यनराऽमरभवायेति, तदत्यन्तक्षयाच्च मोक्ष इति, यथाऽत्यन्ताऽपथ्याऽऽहारसेवनात्परममनारोग्यं, तस्यैव किश्चित्किश्चिदपकर्षादारोग्यसुखम् , अशेषाऽऽहारपरित्यागान्मृतिकल्पो मोक्ष इति" एतत्सर्वमप्ययुक्तं स्वमनीषिकाविजृम्भितं, यतो न तावत्पापमेवाऽपचीयमानं सुखकारणं तस्य दुःखहेतुत्वेनेष्टत्वात् , विपस्याणुरपि किं कदाचित् पीयूपाय भवति ? एवं स्वल्पस्याऽपि पापस्य स्वल्पदुक्खनिवत्तकत्त्वमनिवार्यम् , तथा चाणीयसो लोहपिण्डादणुरपि लोहमय एव घटो भवति न तु सौवर्णः, तस्मादस्ति सुखजनकं पुन्याख्यं कर्म इति ॥ अथ पुन्यबन्धस्य हेतवो व्याख्यायन्ते, तत्र मुख्यवृत्त्या तु मनोवाक्कायानां यो शुभव्यापारः स पुन्यबन्धस्य हेतुः, तथाऽप्यत्र किश्चिद् विविच्य प्रदृश्यते-सुपात्रेभ्यः तीर्थकरगणधराऽऽचार्यस्थविरमुनिभ्योऽन्नप्रदानं १ सुपात्रेभ्यो निरवद्यवसतेर्वितरणम् २ सुपात्रेभ्यो वाससां प्रदानम् ३ सुपात्रेभ्यो निर्दुष्टप्राशुकजलप्रदानम् ४ सुपात्रेभ्यः संस्तारकस्य प्रदानम् ५ मनसः शुभसंकल्पः ६ वाचः शुभव्यापारः ७ कायस्य शुभव्यापारः ८ जिनेश्वरयतिप्रभृतीनां नमनवंदनपूजनादीनि ९ इत्येतानि 505555755-5
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy