SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ पञ्चेन्द्रियजातिः, पञ्चशरीराणि औदारिकवैक्रियाऽऽहारकतैजसकार्म्मणरूपाणि, आदिभूतानां त्रयाणां शरीराणामौदारिकवैक्रियाऽऽहारकाऽऽत्मनामङ्गोपाङ्गानि, वक्ष्यमाणसंहननषट्कमध्ये प्रथम संहननं वज्रर्षभनाराचनामकं, एवं वक्ष्यमाणसंस्थानषट्कमध्ये समचतुरस्राऽऽख्यं प्रथमसंस्थानं, इत्येतासां सप्तदशप्रकृतीनां शुभविपाकवत्त्वात् पुन्यप्रकृतयः प्रकीर्त्त्यन्त इति गाथाऽक्षरार्थः ।। व्यासार्थस्त्वयम् ; — इहलोके मिथ्यात्वाऽविरतिप्रमादकषाययोगाऽऽत्मकैः कर्म्मबन्धहेतुभिरुपात्तकर्माणो जीवाः प्रदेशोदयद्वारा विपाकोदयेन वोपात्तं कर्म्म यदानुभवन्ति तदाऽनुभूयमानशुभाशुभकर्मणामनुसारेण जीवा अपि तथाविधशुभाशुभाऽध्यवसायवन्तस्सन्तः पुनः स्वाऽवगाढाऽऽकाशप्रदेशवर्त्तिकार्म्मणवर्गणापुद्गलान् सर्वाऽऽत्मप्रदेशैर्गृहीत्वाकर्म्मतया तान् परिणमय्य शुभाशुभपरिणामानुसारेण स्थितिरसे तेषु कर्म्मपुद्गलेषु ग्रहणसमयेनैवोत्पाद्य क्षीरनीरवद् वह्नययःपिण्डवद्वाऽऽत्मप्रदेशानामभेदाऽऽत्मकं सम्बन्धं कुर्व्वन्ति । तत् कर्म्म घाति - अघातिभेदाभ्यां द्विविधं यत् कर्म अनन्तA ज्ञानाऽनन्तचारित्राऽनन्तवीर्याऽऽत्मकमात्मगुणं सर्वथा देशेन वा हन्ति तत् घाति, यच्चैवं न तदघाति । वक्ष्यमाणकर्माष्टकमध्ये ज्ञानाऽऽवारकदर्शनाऽऽवरणीयमोहनीयाऽन्तरायलक्षणानि चत्वारि कर्माणि ज्ञानादिगुणानां घातकत्वाद् घातीनि, अज्ञानाद्यशुभविपाकजनकच्वादशुभानि । वेदनीय - आयु- नाम - गोत्राऽऽख्यानि चच्चारि अघातीनि कर्माणि सुखदुःखye प्रभृतिशुभाशुभविपाकजनकच्त्वात् शुभाशुभस्वरूपाणि । एवं घाति - अघातिनोर्मध्ये यान्यशुभानि कर्माणि ताः पापv कृतयः, यानि च शुभानि कर्माणि ताश्च पुन्यप्रकृतयः । पुन्यं नाम पुनाति आत्मानं पवित्रीकरोतीति पुन्यम् || अशुभकर्म्मपांशुपांशुल आत्मा यैः कर्मभिः क्रमशः शुभं कर्म्म अर्जयित्वा पवित्रीभवति, क्रमेण च सत्तागतकर्म्मप्रदेशान् आत्मप्रदेशेभ्यः T T 品 श्रीनवतत्त्वA सुमङ्गला- 45 टीकायां- V 11 86 11 A תבן 555A5N50A5L5< पुन्यतत्त्वे पुन्यस्वरूपम् ॥ 1186 11
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy