________________
!
4
श्रीनवतत्व-A
अजीवतत्त्वे द्रव्यपद्धे कर्तृत्त्वादिविभागः॥
3
सुमङ्गलाटीकायां॥४६॥
>
<
-
प्रति अस्त्युपकारकं परस्पराऽपेक्षया, परं कारणादिद्वाराणां परप्रत्ययिकत्त्वान्नास्त्यत्र विरोधः ॥ अथ षट्सु द्रव्येषु | कतिसंख्यानि द्रव्याणि कर्तृलक्षणानि कति चाऽकर्तृणीति चिन्तायां यद् द्रव्यं द्रव्यान्तरस्य क्रियां प्रति अधिकारवत् तत् कर्तृत्त्वोपेतं, यच्च द्रव्यान्तरस्य क्रियां प्रत्यनधिकारि तत् कर्तृत्ववियुतम् । “क्रियां करोतीति कर्ता " इति | सामान्यशब्दव्युत्पत्त्यनुसारेण तु यद्यपि पण्णामपि द्रव्याणां कर्तृवं, तथाऽप्यस्मिन् प्रकरणे सर्वेषां द्रव्यान्तराणां खा
मित्वेनोपभोक्तृ तत् कर्तृलक्षणम् । षट्सु द्रव्येषु धर्माऽधादिद्रव्याणां गतिसाहाय्यकादिगुणानामुपभोक्ता जीवः, ततो जीव| द्रव्यं कर्तृत्वोपेतम् , द्रव्यान्तराणि कर्तृत्ववर्जितानीत्यर्थः॥ द्रव्येषु सर्वव्यापित्त्वदेशव्यापित्त्वविचारणायां यद् द्रव्यं सर्वाऽवगाहं व्यामोति तत् सर्वव्यापि, यच्चाऽवगाहस्यैकदेश व्याप्य तिष्ठति तद् देशव्यापि, आकाशास्तिकार्य विरहय्य चत्वारोऽप्यस्तिकायाश्चतुर्दशरज्जुपरिमितलोकाऽऽकाशं व्याप्य स्थिता अतस्तानि चत्वार्यपि द्रव्याणि देशव्यापीनि, कालोऽपि सार्धद्वयद्वीपान्तवर्तित्वाद् देशव्यापी, आकाशद्रव्यं सर्वव्यापित्वात सर्वव्यापि, इत्थं द्रव्यषट्कमध्ये आकाशद्रव्यमृते शेषाणि पश्चाऽपि देशव्यापीनि, आकाशस्तु सर्वव्यापी ॥ सप्रवेशिवाऽप्रवेशित्त्वयोरनुयोगे-विवक्षितद्रव्यस्य द्रव्यान्तरतया यत् परिणमनं स प्रवेशः, सोऽस्यास्तीति तत् सप्रवेशिद्रव्यं, यच्च कदाचिदपि द्रव्यान्तरखेन न परिणमते परं स्वरूपतयैव तिष्ठति तदप्रवेशिद्रव्यं, धम्मोऽधम्मोदिषु पट्सु द्रव्येषु सर्वाण्यपि अप्रवेशिद्रव्याणि यतो न विवक्षितद्रव्यं स्वरूपं त्यक्त्वा द्रव्यान्तरतया परिणमते । इत्येवं संक्षेपतः 'परिणामी ' त्ति गाथायामुक्तानि द्वाराणि विवृतानि, विशेषस्तु प्रज्ञापनादिमहाशास्त्रसमूहाद्विलोकनीयः ॥
Szs054-5
-529<!
॥ ४६ ।।