SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ क परिणामपरिणतानां गमनक्रियायामुपकारकः, अधर्म्माऽस्तिकायः स्थितिपरिणामपरिणतानां जीवपुद्गलानां स्थित्युपकारकः, A आकाशाऽस्तिकायो जीवपुद्गलानामवगाहदायकत्वेनोपकारकः, पुद्गलास्तिकायो जीवस्य शरीर - वाद - मनः - प्राणापान - सुखदुःख - जीवित - मरणादिषूपकारकः, कालद्रव्यं तु जीवस्य वर्त्तनादिपर्यायेषूपयुज्यते, उक्तञ्च विविधज्ञानवितरणकल्पशाखिV कल्पैः श्रीमद्भिरुमाखातिसूरिप्रकाण्डैस्तत्त्वार्थसूत्रे – “गतिस्थित्युपग्रहो धर्म्माऽधर्म्मयोरुपकारः ( त०५ - १७ ) " " आकाश品 स्याऽवगाहः ( त० ५–१८ ) ” “ शरीरखाङ्मनः प्राणाऽपानाः पुद्गलानां ( त० ५-१९ ) सुखदुःखजीवितमरणोपग्रहाश्व A ( त० ५-२० ) ” “ वर्त्तना परिणामः क्रियापरत्त्वाऽपरत्वे च कालस्य ( त० ५-२२ ) " इत्यादि । एवमुक्तप्रकारेण जीव5 द्रव्यं प्रति पश्चाऽपि धर्मादीनि द्रव्याणि उपकारकत्वेन कारणद्रव्याणि, जीवद्रव्यं तु द्रव्यान्तरं प्रति उपकारच्त्वाऽभाववद् T अतोऽकारणद्रव्यम् । ननु जीवद्रव्यं प्रति यथाऽन्यानि द्रव्याण्युपकारकाणि एवं पुद्गलद्रव्यं प्रत्यप्युकारकाणि दृश्यन्ते, अतो जीवद्रव्यमिव पुद्गलद्रव्यमपि कारणतावर्जितं भवेदिति ? कथं जीवद्रव्यमेकमेव तादृक् प्रतिपाद्यते ? सत्यं, पुद्गलद्रव्यं प्रति A जीवद्रव्यमिव द्रव्याऽन्तराण्युपयुज्यन्ते परं पुद्गलद्रव्यं स्वयमपि जीवद्रव्यमुपकुरुते, अकारणद्रव्यं तु तत्प्रोच्यते यत् स्वयं द्रव्याऽन्तरं प्रत्यनुपकारकं सत् स्वं प्रति द्रव्याऽन्तराणि उपकारकाणि भवेयुः, जीवद्रव्यं त्वेतत्स्वरूपं, न तु पुद्गलद्रव्यं, यतः पुद्गलाऽस्तिकायं प्रति अन्यानि द्रव्याण्युपकारकाणि सन्त्यपि जीवद्रव्यं प्रति स्वस्योपग्राहकत्त्वेन तस्याऽकारणद्रव्यत्त्वं परि- A भावनीयम् । ननु धर्माधर्मादीनि द्रव्याणि द्रव्याऽन्तरं प्रति यथोपकारकाणि, एवं जीवद्रव्यं किञ्चिद्द्रव्यं प्रति 5 उपग्रहकारकमस्ति न वा ? उच्यते – “ परस्परोपग्रहो जीवानाम् " इति तत्त्वार्थसूत्रोक्त्यनुसारेण जीवद्रव्यं जीवद्रव्यं T י 5555555! U M A
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy