________________
>295
श्रीनवतत्त्व मुमङ्गलाटीकायां॥४५॥
अजीवतत्त्वे द्रव्यषवे नित्या
नित्य| विभाग
-卐>
ऽचेतनत्त्व-स्थितिसहायकत्वादिभिर्नित्यं, देश-प्रदेशाऽ-गुरुलघुपर्यायैरनित्यम् । एवमाकाशद्रव्येऽपि योज्यम् । नवरं गतिस्थितिसहायकत्त्वस्थानेऽवगाहदायकत्त्वं ज्ञेयम् । तथा कालद्रव्यं अमूर्त्तत्त्वा-ऽचेतनत्त्वाऽक्रियत्वैवर्तनादिलक्षणैश्च नित्यं, अतीताऽनागत-वर्तमानाऽपेक्षयानित्यम् । तथा जीवद्रव्यं ज्ञान-दर्शन-चारित्र-वीर्याद्यैर्गुणैरमूर्त्तत्त्वादिभिः पर्यायैश्च नित्यं, देवत्व-मनुजत्त्वादिभिरनित्यं । पुद्गलद्रव्यमपि मूतत्वाऽचेतनत्वादिभिर्नित्यं, परमाणुच-स्कंधत्वाऽऽदिभिः पर्यायैरनित्यम् ॥ ननु सिद्धावस्था समापन्ना जीवा सिद्धत्वमाश्रित्य नित्या आहोश्चिदनित्याः? उच्यते-अनित्या इति, यतो यन्नित्यं तनियमादनाद्यनन्तं स्यात् , सिद्धत्त्वं तु नैवम् , अत्रैदम्पर्यः-सिद्धजीवानां जीवत्वं तु पूर्वोक्तरीत्या नित्यं सिद्धत्त्वं तु न तथाप्रकारं, यतो विवक्षितकाले सिद्धत्वस्योत्पादः, सिद्धिशिला तु शाश्वती ॥ ननु जिनबिम्ब-जिनचैत्य-सुमेरुप्रभृतीनि यानि यानि लोके शाश्वतानि वस्तूनि तानि नित्यानि उतानित्यानि ? अत्राऽऽह-जगत्यां ये ये शाश्वताः पदार्थास्ते आकारमात्रेण प्रमाणमात्रेण वा नित्यानि, यतस्तेषामाकारे प्रमाणे वा कालाऽन्तरेऽपि न तारतम्यं स्यात्, परं पुद्गलद्रव्यमाश्रित्यानित्यानि, यतः कारणात् प्रतिसमयं तेभ्यः शाश्वतद्रव्येभ्योऽनन्ताः पुद्गलपरमाणवः पृथक् भवन्ति, अनन्ताश्च तत्र गत्वा सम्मिलन्ति, अत आकारे न भिन्नता, परं पुद्गलद्रव्याणां नैरन्तर्येणाऽवस्थानस्याऽभावः, आकारः शाश्वतः पुद्गलद्रव्यं तत्रस्थमशाश्वतमेवेत्यर्थः।
द्रव्येषु षट्सु कतमद् द्रव्यं कारणात्मकं, कतमच्च कारणतावर्जितमित्यनुयोगे इदं ज्ञेयम्-यद् द्रव्यं द्रव्यान्तराणां कार्येषूपयुज्यते तत् कारणखभावाऽऽत्मकं, यच्च द्रव्याऽन्तरक्रियासु कारणत्वेन नोपयुज्यते तत् कारणताऽपेतम् । विना जीवद्रव्य धर्माऽधर्माऽऽकाशादिद्रव्यपञ्चकं कारणचोपेतं, जीवद्रव्यं त्वकारणाऽऽत्मकं, यतो धर्माऽस्तिकायो जीवपुद्गलानां गति- |
304 20'3-<!
<9-4
॥४५॥
i>