________________
N
55-55
節 योरनुयोगे धर्माधर्म्माऽऽकाशाऽस्तिकायानां प्रत्येकमेकैकत्त्वम्, पुद्गलानामानन्त्यं सुविख्यातमतो पुद्गलद्रव्यमानन्त्यभाक्, A लोके काष्ठपुस्तादीन्यनन्तानि पुद्गलद्रव्याणि, जीवद्रव्याण्यप्यनन्तानि पृथिवीकायिकादीनामसंख्यातत्त्वेऽपि निगोदवर्त्तिजीवानामानन्त्यात् । कालस्तु अनन्तचोपेतः, ( अतीतानागतकालाऽपेक्षया ) अनन्तसमयाऽऽत्मकत्त्वात्तस्य । द्रव्यपट्के कति द्रव्याणि क्षेत्रमिवाऽऽधारभूतानि ? कति च वीजमिवाऽऽवेयतया स्थितानि १ इति चिन्तायां केवलमाकाशाऽस्तिकायाख्यं द्रव्यं क्षेत्रमिवाऽऽधारभूतं, अन्यानि पञ्चाऽपि आधेयतया स्थितानि । अयमत्राऽऽशयः – आकाशं विरहय्य शेषाणि पञ्चाऽपि द्रव्याणि अवगाहदानस्वभावे आकाशे आधेयतया स्थितानि, तत आकाशः क्षेत्रं, शेषाणि क्षेत्रीणि ॥ द्रव्येषु सक्रियाऽक्रियद्रव्यचिन्तायां यद् द्रव्यं गत्यादिक्रियोपेतं तत् सक्रियं, अन्यदक्रियं द्रव्येषु षट्सु जीवपुद्गलाऽऽख्ये द्रव्ये सक्रिये, गत्यादिक्रियाकर्तृलक्षणत्वात्तयोः, शेषाणि निष्क्रियाणि धर्माधर्म्माssदीनि चच्चारि । नित्याऽनित्ययोः परिप्रश्ने यद् द्रव्यं नैरन्तर्येण एकस्यामवस्थायामेव वर्त्तते तन्नित्यं अन्यदनित्यं, षट्सु द्रव्येषु व्यवहारनयमङ्गीकृत्य जीवपुद्गले अनित्ये, यतो जीवः स्वकर्म्माऽनुसारतो गत्या गत्यन्तरं परिभ्राम्यति, देवपर्यायं विहाय मनुर्जपर्यायं विभर्त्ति मनुजत्त्वं च त्यक्त्वा तिर्यक्त्वं दधाति, इत्थं पर्यायनयापेक्षयेदमनित्यत्त्वं, द्रव्यास्तिकनयापेक्षं तु जीवोऽपि नित्य एव । एवं पुद्गलद्रव्यमपि परमाणुत्त्वं वर्ज - यित्वा स्कन्धवमादत्ते, नीलवर्णाऽऽत्मकं पर्यायमुज्झित्वा शुक्लवर्णपर्यायमङ्गीकुरुते, अत एतदपि पुद्गलद्रव्यं पर्यायनयाऽपेक्षयाऽनित्यम् । निश्चयनयेन तु पद्द्रव्याण्यपि नित्यानि अनित्यानि च तद्यथाः- धर्म्माऽस्तिकायद्रव्यं अमूर्त्तत्त्वाऽ-चेतनच्त्वा- 1 ऽक्रियच्च-गतिसहायकत्त्वादिगुणैर्नित्यं, देश-प्रदेशा-ऽगुरुलघुपर्यायैरनित्यश्च । अधर्म्माऽस्तिकायद्रव्यममूर्त्तत्त्वाऽक्रियत्त्वा -
A
V
A
T
A
品
T
V
5555550
A
M
A
N
G